शब्दकल्पद्रुमः
भोगवान् || [त्] पुं, (भोगः फणः कायो वा भूम्ना अस्त्यस्येति । भोग + मतुप् मस्य च वत्वम् ।) सर्पः । इति मेदिनी । ते, २१४ ॥ नाट्यम् । गानम् । इति त्रिकाण्डशेषः ॥ भोगविशिष्टे त्रि ॥