वाचस्पत्यम्
भोगिक || पु० भोगः अश्वभोगः अस्त्यस्य कर्मत्वेन ठन् । अश्वरक्षके शब्दमा० ।
शब्दकल्पद्रुमः
भोगिकः || पुं, (भोगे अश्वभोगे नियुक्त इति । भोग + बाहुलकात् ठन् ।) अश्वरक्षकः । इति शब्दमाला ॥