वाचस्पत्यम्
भोजन || न० भुज—ल्युट् । १ कठिनद्रव्यस्य गलबिलाधःसंयोजने । करणे ल्युट् । २ धने निघण्दुः ३ विष्णौ पु० । “भ्राजिष्णु- भोजनं भोक्ता” विष्णुस० । “भोज्यरूपा च प्रकृतिर्यया भोजनमुच्यते” मायाया भोज्यरूपेण परिणामात् विष्णो- स्तदधिष्ठानत्वात् तथात्वमिति भाष्यादौ दृश्यम् । भोजन- गुणादि भावप्र० उक्तम् आहारशब्दे ८९७ पृ० दृश्यम् । तत्र विशेष आह्निकतत्त्वोक्तोत्राभिधीयते “विष्णुपु० “मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप! । अन्यत्र फलमांसेभ्यः शुष्कशाकादिकात् तथा । तद्वदौदरिके- भ्यञ्च गुरुपक्वेभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर! । नाशेषं पुरुषोऽश्नीयादन्यत्र जगतो- पते! । मध्वन्नदधिसर्पिर्भ्यः सक्तुभ्यश्च विवेकवान् । अश्नीयात्तन्मना भूत्वा पूर्वन्तु मधुरं रसम् । लवणाम्नौ तथा मध्ये कटुतिक्तादिकांस्तथा । प्राग्द्रवं पुरुषोऽश्रन् वै मध्ये च कठिनाशनः । पुनरन्ते द्रवाशी तु बला- रोग्ये न मुञ्चति । अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्न- मकुत्सयन् । पञ्च ग्रासान् सहामौनं प्राणाद्य प्ययनाय तत्” । मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रीति वच- नात् गायत्राभिमन्त्रितम् । गारुडे “शाकं सूपञ्च भूयिष्ठम् अत्यम्लञ्च निवर्जयेत् । न चैकरससेवायां प्रसज्येत कदाचन ।” “मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमस्विन्यां सार्द्धप्रहरयामान्तः” छन्दोगप० । विष्णुः “न तृतीयमथा- श्रीयादापद्यपि कदाचन” । भगवत्गीतासु “आयुःसत्त्व- बलरोग्यसुखप्रीतिविवर्सनाः । रखाः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः । कड्ववणात्युष्ण- तीक्ष्णरूक्षविदाहिनः । आहाराराजसस्येष्टा दुःख- शोकामयप्रदाः । यातयामं गतरसं पूति पर्य्युषितञ्च यत् । उच्छिष्टमपि चामेध्यं भोजनं ताममप्रियम्” । महाभारते “इन्दुव्रतसहसृस्तु यश्चरेत् कायशोधनम् । पिबेद्यश्चापि गङ्गाम्भस्तस्य साम्यं न यात्यसौ” । गङ्गामधिकृत्य मत्स्यपुराणम् “अवगाह्म च पीत्वा च पुनात्यासप्तमं कुलम्” । देवीपुराणम् “ये चैव नृत्तिका स्तस्मात्तीर्थादाहृत्य भुञ्जते । ते सर्वपापनिर्मुक्ताः प्रभवन्ति गतामयाः” । मनुः “आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियः प्रत्यङ्मुणो भुङ्क्त ऋतं भुङ्क्ते ह्युदङ्मुखः” । नियमे त्वेवम् । अनियमे तु नोदङ्मुखः । हारीतः “नोदङ्मुखो- ऽश्नीयात्” इति “निष्कानस्य तु प्राङ्मुखेनैव भीजनम् । यथाह देवलः “प्राङ्मुखोऽन्नानि भुञ्जीत शुचिः पीठमधि- ष्ठितः । विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः” जीवन्मातृकस्य दक्षिणामुखत्वनिषेधमाह आपस्तम्बः “दक्षिणामुखो न भुञ्जीत एवंविधभोजनमनायुष्यं गातुरुपदिशति” केचित्तु “कुहूस्नानं गयाश्राद्धं तिलैस्तर्पणमेव च । न जीवत्पितृकः कुर्य्यादृक्षिणा- मुखभोजनम्” इत्याचारत्न करवृताज्जीवत्पितृकस्यापि निषेध इत्याहुः । व्यासः “पञ्चार्द्रो भोजनं कुर्य्यात् प्राङ्मुखो मौनमास्थितः । हस्तौ पादौ तथैवास्यमेषु पञ्चार्द्रता मता ।” गोभिलः “भुञ्जानेषु तु विप्रेषु यस्तु पात्रं परित्यजेत् । भोजने विघ्नकर्त्तासौ ब्रह्महा- पि तथोच्यते” । आपस्तम्बः “दिवा पुनर्न भुञ्जीतान्यत्र फलमूलेभ्यः” । मनुः “नातिप्रगे नातिमायं न सायं प्रातराशितः” । अतिप्रगेऽचिरोदितसूर्य्ये अतिसायं सूर्य्यास्तमितिसमय एवं प्रातराशितः दिनभीजनेनाति- तृप्तः न सायं न रात्रौ भुञ्जीतेत्यर्थः । आपस्तम्बः “यस्तु भोजनशालायां भोक्तुकाम उपस्पृशेत् । आस- नस्थो न चान्यत्र स विप्र पङ्क्तिदूषकः” भोजनशालायां भोक्तुकामः सन् आसनस्थो वान्यत्र स्थितो वा न चोपस्पृशेत् । बौधायनः “उपलिप्ते समे स्थाने शुचौ सध्यासनान्विते । चतुरस्रं त्रिकोणञ्च वर्त्तुलञ्चार्द्ध चन्द्रकम् । कर्त्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम् । अकृत्वा मण्डलं ये तु भुञ्जतेऽधमयोनयः । तेषान्तु यक्षरक्षांसि हरन्त्यन्नानि तद्बलात्” । आप- स्तम्बः “भिन्नकांस्ये तु यो विप्रो यदि भुङ्क्ते तु कामतः । उपवासेन चैकेन पञ्चगव्येन शुद्ध्यति” । तथा शूद्रादिभोजनेनापरिष्कृतपात्रेऽपि । वृद्धमनुः “ताम्मपात्रे न भुञ्जीत भिन्नकांस्ये मलाविले । पलाश- पद्मपत्रे वा गृही भुक्तैन्दवं चरेत्” । गव्यवर्द्धमान- धृताग्निपुराणम् “अर्कपत्रे तथा पृष्ठे आयसे ताम्र- भाजने । करे कर्पटके चैव भुक्त्वा चीन्द्रायणं चरेत्” पृष्ठे कदलीपत्रादिपृष्ठे । पैठीनसिः “ताम्ररजतसुवर्णाश्म- शङ्खशुक्तिस्फटिकानां भिन्नमभिन्नम् इति न दोषः” । अत्र पाषाणपातं भाजने विहितम् “तैजसानां मणीनाच्च सर्वस्याश्ममयस्य च । भस्मनाद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः” इति मनुना पाषाणपात्रस्य शुद्धिविधानाच्च । प्रचेताः “तान्घूलाभ्यञ्जने चैव कांस्यपात्रे च भोजनम् । यंतश्च ब्रह्मचारी च विधवा च विवर्जयेत्” । अत्रिः “आसने पादमारीप्य बो भुङ्क्ते ब्राह्मणः क्वचित् । मुखेन चान्नमश्नाति तुल्यं गोमांसभक्षणैः” । मुखेन हस्तोत्तोलनं विना गवादिवदित्यर्थः । आश्वमेधिके “आर्द्रपादस्तु भुञ्जीत प्राङ्मुखश्चासने शुचौ । पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः” । बौधायनः “भो- जनं हवनं दानमुपहारः परिग्रहः । बहिर्जानु न कार्य्याणि तद्वदाचमनं स्मृतम्” । हारीवः “मार्ज- नाच्च वलिकर्म भोजनानि दैवतीर्थेन कुर्य्यात्” । परा- शरभाष्ये वृद्धमनुः “न पिबेन्न च भुञ्जीत द्विजः स- ष्येन पाणिना । नैकहस्तेन च जलं शूद्रेणावर्जितं पिबेत्” । मार्कण्डेयपुराणम् “पादप्रसारणं कृत्वा न च वेष्टितमस्तकः” । मनुः “पूजयेदशनं नित्यं चाद्याच्चैव मकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच्च प्रणमेच्चैव सर्वदा । अन्नं दृष्ट्वा प्रणम्यादौ प्राञ्जलिः प्रार्थयेत्ततः । अस्माकं नित्यमस्त्वेतदिति भक्त्याथ वन्दयेत्” । विष्णुपु० “नागः कूर्मश्च क्रकरो देवदत्तो धनञ्जयः । वहिस्था वायवः पञ्च तेषां भूमौ प्रदीयते । अदत्त्वा बाह्यवायुभ्यः प्राणा- दिभ्यो न होमयेत्” । इति शिष्टपठितवचनान्नागादिभ्यो बलिदानमिति प्राचीनाचारः । तत्रान्नं देवेभ्योदत्त्वा भो- क्तव्यं तथा च भगवद्गीतायाम् “इष्टान् भोगान् हि वो देवादास्यन्ति यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्- “क्ते स्तेन एव सः” । यज्ञैः संवर्द्धिता देवा वो युष्मभ्यं भोगानन्नादीनि वृष्ट्यादिद्वारा दास्यन्ति । अतो देवैर्दत्तान् अन्नादीन् तेभ्योऽदत्त्वा यो भुङ्क्ते स चौर एव । स्मृतिः “निवेद्य प्राशनात् पूर्वं देवपादोदकाहुतिः । हो- तव्या जठरे वह्नौ स्वेन पाणितलेन तु” । तेन पादोदकेना- पोशानं कृत्वा प्राणाहुतिर्नैवेद्येन कार्य्या” आ० त० रघु० ।
शब्दकल्पद्रुमः
भोजनं || क्ली (भुज् + “ल्युट् च ।” ३ । ३ । ११५ । इति भावे ल्युट् ।)
भक्षणम् । कठिनद्रव्यस्य गलाधःकरणम् । तत्पर्य्यायः । जग्धः २ जेमनम् ३ लेपः ४ आहारः ५ निघसः ६ न्यादः ७ । इत्यमरः । २ । ९ । ५५ ॥ जमनम् ८ विघसः ९ । इति तट्टीका ॥ अभ्यवहारः १० प्रत्यवसानम् ११ अशनम् १२ स्वदनम् १३ निगरः १४ । इति राजनिर्घण्टः ॥ * ॥
अथ भोजनगुणविधानादि । “भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम् । अग्निसन्दीपनं हृद्यं लवणार्द्रकभक्षणम् ॥ आयुर्घृते गुडे रोगा मृत्युर्लीनो विदाहिषु । आरोग्यं कटुतिक्तेषु बलं मांसे पयःसु च ॥ अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥ घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् । आहारः प्रीणनः सद्यो बलकृद्देहधारणः ॥ * ॥
आयुष्यं प्राङ्मखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ कुक्षेरन्नेन भागौ द्वावेकं पानेन पूरयेत् । वायोः सञ्चारणार्थञ्च चतुर्थमवशेषयेत् ॥ दन्ते चावगतं चान्नं सौचेनैवाहरेज्जलैः । कुर्य्यादनिर्गतं तद्धि सुखस्यानिष्टगन्धताम् ॥ भुक्त्रा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥ भुक्त्वाचम्य करं वामं दत्त्वा कुक्षौ ततः पठेत् । भुक्तं महेन्द्रहस्तेन वैश्वानरसुखेन च ॥ गरुडस्य च कण्ठेन समुद्रस्य च वह्निना । वातापिर्भक्षितो येन पीतो येन महोदधिः ॥ यन्मया खादितं पीतं तदगस्त्यो जरिष्यति । पठित्वैतत् सुखासीनः क्षणं तिष्ठेदनाकुलः ॥ भुक्त्रा पादशतं गत्वा वामपार्श्वेन संविशेत् । एवं ह्यधोगतं चान्नं सुखं तिष्ठति जीर्य्यति ॥ भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् । आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः ॥” इति राजवल्लभः ॥ * ॥
अपि च । “ततो भोजनवेलायां कुर्य्यान्मङ्गलदर्शनम् । तस्य प्रदक्षिणं नित्यमायुर्धर्म्मविवर्द्धनम् ॥ लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः । हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥ पादुकारोहणं कुर्य्यात् पूर्ब्बं भोजनतः परम् । पादरोगहरं वृष्यं चक्षुष्यं चायुषे हितम् ॥ * ॥
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधा । बुभुक्षा च पिपासा च सुषुप्सा सुरतस्पृहा ॥ भोजनेच्छाविघातात् स्यादङ्गमर्द्दोऽरुचिः श्रमः । तन्द्रा लोचनदौर्ब्बल्यं धातुदाहो बलक्षयः ॥ विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत् । श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा ॥ निद्राविघाततो जम्भा शिरोलोचनगौरवम् । अङ्गमर्द्दस्तथा तन्द्रा स्यादन्नापाक एव च ॥ बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात् । मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः ॥ आहारं पचति शिखी दोषाननाहारः पचति । दोषक्षये च धातून् पचति धातुक्षये प्राणान् ॥ आहारः प्रीणनः सद्यो बलकृद्देहधारणः । स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्द्ध्वनः ॥ यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् । विचार्य्य दोषकालादीन् कालयोरुभयोरपि ॥” उभयोः कालयोः प्रातः सायञ्च । तथा च । “सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम् । नान्तरा भोजनङ्कुर्य्यादग्निहोत्रसमो विधिः ॥” प्रातः प्रथमयामात् उपरि द्वितीययामात् अर्व्वाक् । तथा च । “याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् । याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः ॥” अन्यच्च । “क्षुत् सम्भवति पक्वेषु रसदोषमलेषु च । काले वा यदि वाकाले सोऽन्नकाल उदाहृतः ॥” रसादीनां पाकं ज्ञातुमाह । “उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः । लघुता क्षुत्पिपासा च यदा कालः स भोजने ॥” स्थानमाह । “आहारं विजने कुर्य्यान्निर्हारमपि सर्व्वदा । उभाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे हीयते श्रिया ॥ निर्हारो मलमूत्रोत्सर्गः । अन्यच्च । “आहारनिर्हारविहारयोगाः सदैव सद्भिर्व्विजने विधेया इति ॥” * ॥
भोजने येषां दृष्टिर्निवारणीया तानाह । “हीनदीनक्षुधार्त्तानां पापषण्डैणरोगिणाम् । कुक्कुटादिशुनां दृष्टिर्भोजने नैव शोभना ॥” येषां दृष्टिः शुभदा तानाह । “पितृमातृसुहृद्बैद्यापापकृद्धंसवर्हिणाम् । सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा ॥” कथञ्चित्तद्दुष्टदृष्टिपाते तद्दोषशान्तये ब्रह्मा- दीन् स्मरेत् । तद्यथा, —
“अन्नं ब्रह्म रसो विष्णुर्भोक्ता देवो महेश्वरः । इति सञ्चिन्त्य भुञ्जानो दृष्टिदोषो न बाधते ॥ अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम् । दृष्टिदोषविनाशाय हनूमन्तं स्मराम्यहम् ॥” भाजनमाह । “दोषहृद्दृष्टिदं पथ्यं हैमं भोजनभाजनम् । रौप्यं भवति चक्षुष्यं पित्तहृत् कफवातकृत् ॥ कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम् । पैत्तलं वातकृद्रूक्षमुष्णं कृमिकफप्रणुत् ॥ आयसे कान्तपात्रे च भोजनं सिद्धिकारकम् । शोथपाण्डुहरं बल्यं कामलापहमुत्तमम् ॥ शैलजे मृण्मये पात्रे भोजनं श्रीनिवारणम् । दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च ॥ पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत् ॥ जलपात्रन्तु ताम्रस्य तदभावे मृदो हितम् ॥ पवित्रं शीतलं पात्रं घटितं स्फटिकेन यत् । काचेन रचितं तद्वत्तथा वैदूर्य्यसम्भवम् ॥ * ॥
भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् । अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥” लवणं सैन्धयं ज्ञेयम् । आर्द्रकन्तु कटुकमपि न पित्तविरोधि मधुरपाकित्वात् ॥ “अश्नीयात्तन्मना भूत्वा पूर्ब्बन्तु मधुरं रसम् । मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान् ॥ फलान्यादौ समश्नीयात् दाडिमादीनि बुद्धिमान् ॥ विना मोचाफलं तद्वद्वर्ज्जनीया च कर्क्कटी ॥ मृणालविसशालूककन्देक्षुप्रभृतीन्यपि । पूर्ब्बमेव हि भोज्यानि न तु भुक्त्रा कदाचन ॥ गुरु पिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि । न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभु- क्षितः ॥ घृतपूर्ब्बं समश्नीयात् कठिनं प्राक् ततो मृदु । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥” अयमर्थः । प्राक् घृतपूर्ब्बं कठिनं समश्नीयात् । यथा काश्यादिवासिनः प्रथमं सव्यञ्जनां घृतपूर्ब्बां रोटिकां भुञ्जते । ततो मृदुसपूपादिकमोदनं भुञ्जते । अन्ते पुनर्द्रबाशी भोजनान्ते दधितक्र- दुग्धादि भुञ्जते । “यद्यत् स्वादुतरं तद्धि विदध्यादुत्तरोत्तरम् । भुक्त्वा यत् प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम् ॥” स्वाद्वन्नस्य गुणमाह । “सौमनस्यं बलं पुष्टिमुत्साहं रसनासुखम् । स्वादु सञ्जनयत्यन्नमस्वादु च विपर्य्ययम् ॥ अत्युष्णान्नं बलं हन्ति शीतं शुष्कञ्च दुर्ज्जरम् । अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम् ॥ अतिद्रुताशिताहारो गुणान् दोषान्न बिन्दति । भोज्यं शीतमहृद्यञ्च स्याद्बिलम्बितमश्नतः ॥” गुरु त्रिविधं तन्निवारयन्नाह । “मन्दानलो नरो द्रव्यं मात्रागुरु विवर्ज्जयेत् । स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु ॥ मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः । संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् ॥ * ॥
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च । भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम् ॥” चूष्यं इक्षुदाडिमादि । पेयं पानकशर्करोद- कादि । लेह्यं रसालाक्वथितादि । क्वथिता कटी इति लोके । भोज्यं भक्तसूपादि । भक्ष्यं लड्डुकमण्डकादि । चर्व्व्यं चिपिटचणकादि ॥ स्वभावगुरुसंस्कारगुरुणोः स्वभावलघुनश्च भक्ष्यस्य भोजनपरिमाणमाह । “गुरूणामर्द्धसौहित्यं लघूनां तृप्तिरिष्यते ।” अयमर्थः । माषपिष्टान्नादिभिरर्द्धं सौहित्यं कर्त्तव्यं मुद्गादिभिः स्वाभाविक्या मात्रया तृप्तिः कर्त्तव्येत्यर्थः । “द्रवो द्रवोत्तरश्चापि न मात्रागुरुरिष्यते ।” द्रवः पेयादि । द्रवोत्तरः तक्राद्यधिक ओद- नादिर्मात्रातोऽधिकोऽपि मात्रागुरुर्न मन्तव्यः । पेयस्य सर्व्वतो लघुत्वात् ! उक्तञ्च सुश्रुतेन । पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरमिति । पेयं पय आदि । लेह्यं रसालादि । अद्यं ओदनसूपादि । भक्ष्यं मोदकादि । “द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपपद्यते । विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ॥” अयमर्थः । शुष्कमपि स्रोतोरोधकरमपि द्रवाढ्यं सम्यक् पाकं याति । केवलस्य शुष्क- स्यान्नस्य दोषमाह । विशुष्कमन्नभित्यादि ॥ अपक्वं तत् किं भवतीत्यपेक्षायामाह । “पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ।” पिण्डीकृतं अष्ठीलावद्भूतम् । असंक्लिन्नं असम्यगार्द्रम् । विदाहमुपगच्छति विदग्धं भवतीत्यर्थः ॥ शुष्कादीनां वैगुण्यमाह । शुष्कं विरुद्ध्वं विष्ठम्भि वह्निव्यापादमावहेत् ।” शुष्क चिपिटादि । विरुद्धं क्षीरमत्स्यादि । विष्टाम्भि चणकमसूरादि वह्निमान्द्यं कुर्य्यात् । “न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा बहून् ।” न जलान्तरितान्न द्विः शक्तूनद्यान्न केवलान् ॥ पुनर्द्दानं पृथक् पानं सामिषं पयसा निशि । दन्तच्छेदनमुष्णञ्च सप्त शक्तुषु वर्ज्जयेत् ॥” विषमाशनस्य लक्षणमाह । “बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम् ।” बहुलाल्पस्य भक्षितस्य दोषमाह । “आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् । हीनमात्रं तनोः कार्श्यं करोति च बलक्षयम् ॥” अधिकं अन्नम् ॥ अकाले भुक्तस्य दोषमाह । “अप्राप्तकालो भुञ्जानोऽप्यसमर्थतनुर्नरः । तांस्तान् व्याधीनवाप्नोति मरणञ्चाधिगच्छति ॥” अप्राप्तकालः कालादतिप्राक् भुञ्जानोऽसमर्थ- शरीरो भवति । तथा सति तांस्तान् व्याधीन् शिरोव्यथाविसूचिकालसकबिलम्बिकादीन् प्राप्नोति । तेषामाधिक्ये मरणमपि प्राप्नो- तीत्यर्थः । “कालेऽतीतेऽग्रतो जन्तोर्व्वायुनापहतेऽनले । कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा ॥ कुक्षेर्भागद्वयं भोज्यैस्तृतीयं वारि पूरयेत् । वायोः सञ्चरणार्थाय चतुर्थमवशेषयेत् ॥ रसेनान्नस्य रसना प्रथमेनोपतर्पिता । न तथा स्वादुमाप्नोति ततः सेच्याम्बुनान्तरा ॥ अत्यम्वुपानान्न विपच्यतेऽन्न- मनम्बुपानाच्च स एव दोषः । तस्मान्नरो वह्निविवर्द्धनाय मुहुर्मुहुर्व्वारि पिबेदभूरि ॥ भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् । मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् ॥” अन्यच्च । “समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः ।” इति वाग्भटः ॥ भुक्तं भोजनम् । “तृषितस्तु न चाश्नीयात् क्षुधितो न पिबेज्जलम् । तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी ॥” ननु शिष्टा भोजनान्ते दुग्धं पिबन्ति तत् कथ- मुचितम् । यतस्त्रिधा विभक्तस्य भोजन- कालस्य प्रथमो भागो वातस्य द्वितीयः पित्तस्य तृतीयः कफस्य । अतएवाह । “अश्नीयात्तन्मना भूत्वा पूर्ब्बन्तु मधुरं रसम् । मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान् ॥” अस्यायमभिप्रायः । भोजने पूर्ब्बं भुक्तो मधुरो रसो बुभुक्षितस्य वातपित्तयोः शमको भवति । “भोजनमध्ये भुक्तावम्ललवणौ पित्ताशये च वह्निवृद्धिं कुरुतः । भोजनान्त्यसमये भुक्ताः कटुतिक्त- कषाया रसा कफं शमयन्तीति ।” अतो भोजनावसानसमयस्य कफकाल- त्वात्तत्र कथं श्लेष्मजनकं दुग्धं पातुमुचितं भवति । यत उक्तम् । “दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्द्धनम् । वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलमिति ॥” उच्यते । “विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः । तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत् ॥” अतएव ब्रह्मपुराणे । “कुर्य्यात् क्षीरान्नमाहारं दध्यन्नं न कदाचनेति ॥ लवणाम्लकटूष्णानि विदाहीन्यति यानि तु । तद्दोषं हर्त्तुमाहारं मधुरेण समापयेत् ॥” भोजनावसानसमये दुग्धादिमधुरभोजनेनैव वर्द्धितकफो लवणाम्लकटुभोजनजनितां पित्तस्य वृद्धिं नाशयति पित्तवृद्धिनाशनेन कफस्यापि वृद्धिरुपक्षीणा भवति क्षीणकफवृद्धिरग्निमान्द्या- दीन् व्याधीन् उत्पादयितुं न शक्नोति ॥ “एवं भुक्त्वा समाचामेत् रूक्षग्रहणपूर्ब्बकम् । भोजने दन्तलग्नानि निर्हृत्याचमनञ्चरेत् ॥ दन्तलग्नमनिर्हार्य्यं लेपं मन्येत दन्तवत् । न तत्र बहुशः कुर्य्याद्यत्नं निर्हरणं प्रति ॥ आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषीस्पृशेत् । भुक्त्वा पाणितले घृष्ट्वा चक्षुषोर्यदि दीयते । अचिरेनैव तद्वारि तिमिराणि व्यपोहति ॥ भुक्त्रा च संस्मरेन्नित्यमगस्त्यादीन् सुखावहान् । विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा । सत्येन तेन यद्भुक्तं जीर्य्यत्यन्नमिदं तथा ॥ अगस्तिरग्निर्वडवानलश्च भुक्तं ममान्नं जरयत्वशेषम् । सुखञ्च मे तत् परिणामसम्भवं यच्छत्वरोगं मम चारुदेहे ॥ अङ्गारकमगस्तिञ्च पावकं सूर्य्यमश्विनौ ॥ यश्चैतान् संस्मरेन्नित्यं भुक्तं तस्याशु जीर्य्यति ॥ इत्युच्चार्य्य स्वहस्तेन परिमार्ज्य तथोदरम् । अनायासप्रदायीनि कुर्य्यात् कर्म्माण्यतन्द्रितः ॥” अतन्द्रितः जाग्रत्तिष्ठेन्न तु सुप्यात् । भुक्त- मात्रस्य तु स्वप्नान्मन्दाग्निः कुपितः कफ इति वचनात् । “जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेधते । भुक्तमात्रे कफश्चापि क्रमोऽयं भोजनोपरि ॥” विदग्धे किञ्चित्पक्वे पित्तमेधते किञ्चिदपक्वेकफः ॥ भुक्तमात्रे संजातकफस्य प्रतीकारमाह । “धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः ॥ पूगकर्पूरकस्तूरी लवङ्गसुमनःफलैः । फलैः कटुकषायैर्वा मुखवैषद्यकारिभिः । ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥” धूभेन अगुर्व्वादिधूमेन । अपोह्य कफं दूरी- कृत्य । कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरी- लवङ्गादिभिः । पूगैः क्रमुकैः । सुमनःफलैः जातीफलैः ॥ फलैः एलाहरीतक्यादिफलैः । “रते सुप्तोत्थिते स्नाते भुक्ते वान्ते च सङ्गरे । सभायां विदुषां राज्ञां कुर्य्यात्ताम्बूलभक्षणम् ॥ भुक्त्वा शतपदीं गच्छेच्छनैस्तेन तु जायते । अन्नसंघातशैथिल्यं ग्रीवाजानुकटीसुखम् ॥ भुक्त्रोपविशतस्तुन्दं शयानस्य तु पुष्टता । आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः ॥” चंक्रममाणस्य पदशतं शनैर्गच्छतः ॥ * ॥
“श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे । ततस्तद्द्विगुणान् वामे पश्चात् सुप्यात् यथासुखम् । वामदिशायामनलो नाभेरूर्द्ध्वोऽस्ति जन्तूनाम् । तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् ॥ त्रिदोषशमनी खट्वा तूली वातकफापहा । भूशय्या वृं हणी वृष्या काष्ठपट्टी तु वातुला ॥” इति भावप्रकाशः ॥ * ॥
अन्यच्च । “स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् । प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥ कृते जप्ये हुते वह्नौ शुद्धवस्त्रधरो नृप ! । दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय तु ॥ पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर ! । नैकवस्त्रधरोऽथार्द्रपाणिपादो नरेश्वर ! ॥ विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः । प्राङ्प्रखोदङ्मुखो वापि न चैवान्यमना नरः ॥” “अन्नं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः । न कुत्सिताहृतञ्चैव जुगुप्सावदसंस्कृतम् ॥ दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही । प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप ! ॥ नासन्दीसंस्थिते पात्रे नादेशे च नरेश्वर ! । नाकाले नातिसङ्कीर्णे दत्त्वाग्रञ्च नरोऽग्नये ॥ आसन्दी दारुमयत्रिपदी । “मन्त्राभिमन्त्रितं शस्तं न च पर्य्युषितं नृप ! । अन्यत्र फलमांसेभ्यः शक्तुशाकादिकान्तथा ॥ तद्वद्धरितकेभ्यश्च गुडपक्वेभ्य एव च । भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर ! ॥” हरितकेभ्यः अपक्वलेह्यादिभ्यः ॥ “नाशेषं पुरुषोऽश्नीयादन्यत्र जगतीपते ! । मध्वम्बुदधिसर्पिभ्यः शक्तुभ्यश्च विवेकवान् ॥ अश्नीयात्तन्मयो भूत्वा पूर्ब्बन्तु मधुरं रसम् । लवणाम्ले तथा मध्ये कटुतिक्तादिकांस्ततः ॥ प्राक् द्रवं पुरुषोऽश्नीयान्मध्ये च कठिनाशनम् । अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति । अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् । पञ्चग्रासं महामौनं प्राणाद्याप्यायनादि तत् ॥ भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा । यथावत् पुनराचामेत् पाणी प्रक्षाल्य मूलतः ॥ स्वस्थः प्रशान्तचित्तश्च कृतासनपरिग्रहः । अभीष्टदेवतानाञ्च कुर्व्वीत स्मरणं नरः ॥ अग्निराप्याययत्वन्नं पार्थिवं पवनेरितः । दत्तावकाशं नभसा जरयत्वस्तु मे सुखम् ॥ अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च । भवत्वेतत्परिणतौ ममास्त्वव्याहतं सुखम् ॥ प्राणापानसमानानामुदानव्यानयोस्तथा । अन्नं पुष्टिकरञ्चास्तु ममास्त्वव्याहतं सुखम् ॥ अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् । सुखञ्च मे तत्परिणामसम्भवं यच्छत्वरोगं मम चास्तु देहे ॥ विष्णुः समस्तेन्द्रियदेहदेहि- प्रधानभूतो भगवान् यथैकः । सत्येन तेनान्नमशेषमेत- दारोग्यदं मे परिणाममेतु ॥ विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा । सत्येन तेन मे भुक्तं जीर्य्यत्वन्नमिदं तथा ॥ इत्युच्चार्य्य स्वहस्तेन परिमृज्य तथोदरम् । अनायासप्रदायीनि कुर्य्यात् कर्म्माण्यतन्द्रितः ॥ सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना । दिनं नयेत्ततः सन्ध्यामुपतिष्ठेत् समाहितः ॥” इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥ * ॥
अपरञ्च । “भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः । भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती ॥ भैक्षेण वृत्तिनो वृत्तिरुपवाससमा स्मृता । पूजयेदशनं नित्यमद्याच्चैनदकुत्सयन् ॥ दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्व्वशः । अनारोग्यमनायुष्यमस्वर्ग्यञ्चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत् परिवर्जयेम् ॥ प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा । नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ प्रक्षाल्य पाणी पादौ च भुञ्जानो द्विरुपस्पृशेत् । शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ नाश्नीयाद्भार्य्यया सार्द्धं नैनामीक्षेत मेहतीम् । न भक्षयेदभक्ष्याणि नापेयं वा पिबेद्द्विजः ॥” अभक्ष्यान्नन्तु भक्तशब्दे द्रष्टव्यम् ॥ * ॥
“भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् । अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तम ! । भुञ्जीत चेदमूढात्मा तिर्य्यग्योनिं स गच्छति ॥ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया । नाशयत्याशु पापानि देवानामर्च्चनन्तथा ॥ यो मोहादथवालस्यादकृत्वा देवतार्च्चनम् । भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥ तस्मात् सर्व्वप्रयत्नेन कृत्वा कर्म्माणि वै द्विजः । भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥” इति कौर्म्मे उपविभागे १७ अध्यायः ॥ * ॥
व्यास उवाच । “प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा । आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ॥ श्रियं प्रत्यङ्मुखो भुङ्क्ते हृयतं भुङ्क्ते उदङ्मुखः ॥ पञ्चार्द्रो भोजनं कुर्य्याद्भूमौ पात्रं निधाय तु । उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनञ्चरेत् ॥ महाव्याहृतिकं भिन्नं परिधायोदकेन तु । अमृतोपस्तरणमसीत्यापोऽशानक्रियाञ्चरेत् ॥ खाहाप्रणवसंयुक्तां प्राणापानाहुतिन्ततः । अपानाय ततः कृत्वा व्यानाय तदनन्तरम् ॥ उदानाय ततः कुर्य्यात् समानायेति पञ्चमीम् । विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ शेषमन्नं यथोक्तञ्च भुञ्जीत व्य्यञ्जनैर्युतम् । ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ अमृतापिधानमसीत्युपरिष्टादपः पिबेत् । आचान्तः पुनराचामेदायं गौरीतिमन्त्रतः ॥ द्रुपदां वा त्रिरावाह्य सर्व्वपापप्रणाशिनीम् । प्राणानां ग्रन्थिरसीत्यालभेद्धृदयन्ततः ॥ आचम्याङ्गुष्ठमात्रेति पादाङ्गुष्ठेऽथ दक्षिणे । निःस्रावयेद्धस्तजलं मूर्द्धहस्तः समाहितः ॥ हुत्वान्नमन्त्रणं कुर्य्यात् सन्ध्यायामिति मन्त्रतः । अथाक्षरेण स्वात्मानं योजयेद्ब्राह्मणोऽति हि ॥ सर्व्वेषामेव योगानामात्मयोगः परः स्मृतः । योऽनेन विधिना कुर्य्यात् स याति ब्रह्मणः क्षयम् ॥ यज्ञोपवीती भुञ्जीत स्रग्गन्धालङ्कतो नरः । सायं प्रातर्नान्तरा वै सन्ध्यायान्तु विशेषतः ॥ नाद्यात् सूर्य्यग्रहात् पूर्ब्बमह्नि सायं शशिग्रहात् । ग्रहकाले तु नाश्नीयात् स्नात्वाश्नीयात्तु मुक्तयोः । मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ॥ अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा परेऽहनि । नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्म्मतिः ॥ नायज्ञशिष्टादन्यद्वा न क्रुद्धो नान्यमानसः ॥ आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् । वृत्त्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः । सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम् ॥ नार्द्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् । न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥ न भिन्नभाजने चैव न भूम्यां न च पाणिषु । नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि ॥ न ब्रह्म कीर्त्तयेद्वापि न निःशेषं न भार्य्यया । नान्धकारे च नाकाशे न च देवालयादिषु ॥ नैकवस्त्रस्तु भुञ्जीत न च यानस्थितोऽपि वा । न पादुकानुगतो वा न हसन् विलपन्न हि ॥ भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत् ॥” इति कूर्म्मे उपविभागे १८ अध्यायः ॥ * ॥
अपरञ्च । “दत्त्वा च हुत्वा पितृदेवताभ्यो भृत्वातिथीन् भृत्यजनावशिष्टम् । तुष्टः शुचिः श्रद्दधानोऽत्ति योऽन्नं तस्यामृतं स्यात् स पुमान् भुनक्ति ॥” सायं प्रातर्मनुष्याणामशनं देवनिर्म्मितम् । धैदिके लौकिकेऽग्नौ तु प्रत्यक्षे जाठरे तथा ॥ उपलिप्ते समे देशे शुचिः श्रद्धासमन्वितः । पात्रेष्वर्थानुरूपेषु पुत्त्रशिष्यादिभिर्वृतः ॥ सुसंस्कृतं हितं स्निग्धं भुञ्जीतान्नमकुत्सयन् । यवगोधूमशाल्याट्यं मांसशाकादिभिर्युतम् ॥ कट्वम्ललवणैस्तिक्तैर्व्यञ्जनैस्तु सुगन्धिभिः । भक्ष्यप्रकारान् विविधान् कन्दमूलफलानि च ॥ पात्रं भूमौ प्रतिष्ठाप्य यो भुङ्क्ते वाग्यतः शुचिः । भोजने भोजने चैव त्रिरात्रफलमश्नुते ॥ यत्नेन धारयेद्विप्रः पवित्रं दक्षिणे करे । भुञ्जानस्तु विशेषेण अन्नदोषैर्न लिप्यते ॥ यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा । घ्नन्ति केबलमन्नस्य मण्डलस्य विवर्ज्जनात् ॥ आदित्या वसवो रुद्रा ब्रह्मा चैव पितामहः । मण्डलान्युपजीवन्ति तस्मात् कुर्व्वीत मण्डलम् ॥ चतुष्कोणं द्बिजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु । द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा ॥ न लौहे मृण्मये पात्रे भिन्नेऽश्नीयात् कटेऽम्बरे । आपः पुनन्त्वितिमन्त्रेण भुव्यास्तीर्य्य समासनम् ॥” ध्रुवा द्यौरित्युपविश्य पात्रं प्रक्षाल्य मूर्द्धानं दिवोऽरतिमितिपात्रमभिमन्त्र्य भूम्यावृत्वायनेति भूमौ पात्रं प्रतिष्ठापयेत् । आहतवासाः शुक्ल- वासा वा पवित्रात्मा क्षान्तात्मा प्राङ्मुख आसीनः पाणी प्रक्षाल्य दशहोतारन्निगद्येति ध्यायेदव्यक्तं पुरुषम् । तत ओजोऽसीत्यन्नाद्य- माह्रियमाणं प्रतिपत्तयेत् । ओजोसीत्यादिना प्रतिगृह्य अहमस्म्यग्निरश्मीत्यृग्भ्यामभिमन्त्रयेत् । उद्बुध्यस्वेति जाठराग्निमन्तरस्थं प्रबोधयेत् । भूतपतये नमः भुवनपतये नमः भूतानां पतये नमः इति नमस्कारान्ते बलित्रयं भूमौ दद्यात् । अथात्रैवात्मानं चिन्तयेत् । “प्राणस्य हृदयं स्थानमपानस्य गुदं स्मृतम् । समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ पञ्चमः स तु विज्ञेयो व्यानः सर्व्वाङ्गसन्धिषु । राजीवसदृशः प्राणो हृदये नित्यसंस्थितः ॥ तस्याधस्तादपानस्तु स वै गोक्षीरसन्निभः । नाभ्या मध्ये समानस्तु विद्युज्ज्वालासमप्रभः ॥ प्राणस्योपर्य्युदानस्तु इन्द्रनीलसमप्रभः । उभाभ्यामथ शाखाभ्यामथवाप्येकशाखया । अशून्यं पात्रं कुर्व्वीत एवं हानिर्न जायते ॥ अन्तश्चरसि भूतेषु गुहायां विश्वतोमुख ! । त्वं यज्ञस्त्वं वषट्कारस्त्वं विष्णोः परमं पदम् ॥” अभृतोपस्तरणमसीत्यपः स्पृश्योपस्थाय वाचं नियच्छेत् । न्यस्तं महाव्याहृतिभिरद्भिः प्रदक्षिणं परिषिच्य सव्येन पाणिना पात्रमविमुञ्चन्नमृतो- पस्तरणमसीति पुरस्तादपः पीत्वा पञ्चभिस्तैः प्राणाहुतीर्ज्जुहोति । प्राणे निविष्टोऽमृतं जुहोमि शिवोमाविशाप्रदाहाय प्राणाय स्वाहा । अपाने निविष्टोऽमृतं जुहोमि शिवोमाविशा- प्रदाहायापानाय स्वाहा । व्याने निविष्टोऽमृतं जुहोमि शिवोमाविशाप्रदाहाय समानाय स्वाहा । इति तूष्णीं भूयो व्रतयेत् । प्रजापतिं मनसा ध्यायेत् ॥ * ॥
प्राणाय स्वाहेति प्राण- स्तृप्यति । प्राणे तृप्यति चक्षुस्तृप्यति । चक्षुषि तृप्यति आदित्यस्तृप्यति । आदित्ये तृप्यति द्यौस्तृप्यति । दिवि तृप्यन्त्यां यत्किञ्चिद्द्यौ- श्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनु- तृप्यति । व्यानाय स्वाहेति व्यानस्तृप्यति । व्याने तृप्यति श्रोत्रं तृप्यति । श्रोत्रे तृप्यति चन्द्र- मास्तृप्यति । चन्द्रमसि तृप्यति दिशस्तृप्यन्ति । दिक्षु तृप्यन्तीषु यत्किञ्चिद्दिशः खं चन्द्रमा- श्चाधितिष्ठन्ति । तत्तृप्यति तस्यानुतृप्तिं अनु- तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्च- सेनेति । अपानाय स्वाहेत्यपानस्तृप्यति । अपाने तृप्यति वाक् तृप्यति । वाचि तृप्यन्त्यां अग्नि- स्तृप्यति । अग्नौ तृप्यति पृथिवी तृप्यति । पृथिव्यां तृप्यन्त्यां यत्किञ्चित् पृथिवी वाग्नि- श्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनुतृप्यति । तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्च- सेनेति । समानाय स्वाहा इति समानस्तृप्यति । समाने तृप्यति मनस्तृप्यति । मनसि तृप्यति पर्य्यन्यस्तृप्यति । पर्य्यन्ये तृप्यति विद्युत्तृप्यति । विद्युति तृप्यन्त्यां यत्किञ्चिद्धिद्युत्पर्य्यन्यश्चाधि- तिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनुतृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्चसेनेति । उदानाय स्वाहेति उदानस्तृप्यति । उदाने तृप्यति वायुस्तृप्यति । वायौ तृप्यति आकाश- स्तृप्यति । आकाशे तृप्यति यत्किञ्चिद्वायु- श्चाकाशश्चाधितिष्ठतस्तत्तृप्यति । तस्यानुतृप्ति- मनुतृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्चसेनेति ॥ * ॥
“भुक्तेऽन्नेकेचित्काङ्क्षन्ति भुक्तशेषं भुविक्षिपेत् । केचित काङ्क्षन्त्यनाजीवाः केचित् कर्म्मवशा- नुगाः ॥ भुञ्जन्तु मम चोत्सृष्टं पात्रे वाथ मुवि स्थिते । अमृतापिधानमसीत्युपरिष्टात् पयः पिबेत् ॥ अह्नि पूर्ब्बोपरिष्टाच्च वस्त्रं प्राणस्य निर्णयेत् । भुक्त्रा पीत्वा च यः कश्चित् शून्यं पात्रं समुत् सृजेत् ॥ स पुनः क्षुत्पिपासार्त्तो भवेज्जन्मनि जन्मनि । अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ॥” अपः पीत्वाचान्तः प्राणस्थानान्यद्भिः स्पृशति । प्राणानां ग्रन्थिरसीति हृदयमालभ्य जपति प्राणानां ग्रन्थिरसि इति प्राणदेशम् । विष्णो- र्जठरमसीतिनाभिदेशम् । यो देवानामधि- पतीति पुनरपि हृदयदेशमालभ्य जपति । सावित्रीञ्चानुभाष्य त्रिरापो रसानां रसभुक् तत्रात्मा कर्म्मेष्टिः प्रीयतां विश्वभुगिति ध्यायेद- व्यक्तं पुरुषम् ॥ * ॥
“आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम् ॥ गृहस्थो ब्रह्मचारी च योऽनश्नंस्तु तपश्चरेत् । प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः ॥ अन्तराप्रातराशञ्च सायमाशन्तथैव च । सदोपवासी भवति यो न भुड्क्ते कदाचन ॥ प्राणाग्निहोत्रमन्त्राणां निरुद्धे भोजने जपेत् । त्रेधाग्निहोत्रमन्त्रांस्तु द्रव्यालाभेन तर्पयेत् ॥ यथाहि नलमैषीकमग्निप्रोतं प्रहूयते । तद्वत् सर्व्वाणि पापानि निर्दहन्त्यात्मयाजिनः ॥ यथेह क्षुधिता बाला मातरं पर्य्युपासते । एवं सर्व्वाणि भूतानि अग्निहोत्रमुपासते ॥” इति ॥ * ॥
“भोजनस्य निषेधन्तु प्रवक्ष्याम्यनुपूर्ब्बशः । नोच्छ्रितो भक्षयेत् किञ्चिन्न गच्छन् वा कदाचन ॥ खट्वारूढो न भुञ्जीत न पाणिस्थं कदाचन । चन्द्रसृर्य्योपरागे च ग्रस्तास्ते चन्द्रसूर्य्ययोः ॥ गोब्राह्मणोपवासेन न वाजीर्णे तु भोजने । निशीथे नैकवासास्तु न लग्नोच्छिष्टभाजने ॥ न रात्रौ तिलसम्बद्धं दधि शक्तून्न माक्षिकम् ॥ कोविदारवटाश्वत्थफलानि न कदाचन । चणकञ्च कौसुम्भं करमथितञ्च यद्दधि ॥ वेद्या बहिः पुरोडाशं तुल्यं गोमांसभक्षणे । नोच्छिष्टेन घृतं ग्राह्यं शक्तून् वापद्गतोऽपि सन् । पलाण्डुं लशुनं वापि भुञ्जंस्तत्पापमाप्नुयात् ॥ नानार्द्रमुखपाणिस्तु चन्द्रतारार्कमीक्षयेत् । भुञ्जन् कुर्व्वन् स्वमूर्द्धानं स्पृशेद् ब्रह्म न कीर्त्तयेत् ॥ नार्द्रवासाः शिरःक्लिन्नः सोपानत्को निरासनः । शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकम् ॥ नाश्नीयान्न पिबेच्चैव कृत्वा पर्य्यस्तिकां नरः । पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ॥ न च श्राद्धस्य यच्छिष्टं ग्रहे पर्य्युषितञ्च यत् । दम्पत्योर्भुक्तशेषन्तु न भुञ्जीत कदाचन ॥ नातिचरितमश्नीयात् भुक्त्रा शेषं विवर्ज्जयेत् । न भक्षयेत्तु निःशेषमन्यत्र दधिसर्पिषोः ॥ पयसो मधुशक्तूनां तिलानामोदनस्य च । न चैको मिष्टमश्नीयान्न बहूनाञ्च पश्यताम् ॥ बहवस्तु न भुञ्जन्ति तथा चकस्य पश्यतः । ओष्ठौ च न लिहेत् पाणिं नाङ्गुलिं पात्रमेव च ॥ शून्यालयेऽग्निशालायां देवागारे तथैव च । आयुर्निरस्यते तस्य मिष्टैकस्य बुभुक्षतः ॥ अदत्त्वा गोऽग्निविप्रेभ्यः कुमारायानुयायिषु । एकोऽन्नं मिष्टमश्नाति ततोऽन्यो नास्त्यपुण्यकृत् ॥ यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः । वेदेषु दृष्टामृषभिस्तु गीतां तां ब्रह्महत्यां मुनयो वदन्ति ॥ एकपङ्क्त्युपविष्टानां दुष्कृतानां दुरात्मनाम् । सर्व्वेषां तत्समं तावद्यावत् पङ्क्तिर्न भिद्यते ॥ एवं यो ब्राह्मणो भुङ्क्ते सन्तर्प्य पितृदेवताः । स द्वे कुले समुद्धृत्य ब्रह्मसायुज्यमाप्नुयात् ॥” इति वह्निपुराणे भोजनविधानम् ॥ * ॥
त्रिविधभोजनं यथा, —
“उच्छिष्टमवशिष्टं वा पथ्यं पूतमभीप्सितम् । भक्तानां भोजनं विष्णोर्नैवेद्यं सात्त्विकं मतम् ॥ इन्द्रियप्रीतिजननं शुक्रशोणितवर्द्धनम् । भोजनं राजसं शुद्धमायुरारोग्यवर्द्धनम् ॥ अतः परं तामसानां कट्वम्लोष्णाविदाहिकम् । पूतिपर्य्युषितं ज्ञेयं भोजनं तामसप्रियम् ॥” इति कल्किपुराणे २५ अध्यायः ॥ * ॥
श्राद्धादिषु निमन्त्रितस्यान्यत्र भोजने दोषो यथा, —
“निमन्त्रितोऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके । स