वाचस्पत्यम्
भोज्य || त्रि० भोज—ण्यत् भक्षणार्थत्वान्न कुत्वम् । १ भक्षणीय- द्रव्यमात्रे २ भक्ष्यभेदे आहारशब्दे दृश्यम् । श्राद्धान- कल्पे पितॄणां तृप्त्यर्थं देये ३ अन्नादौ च ।
शब्दकल्पद्रुमः
भोज्यं || त्रि (भुज्यते इति । भुज् + कर्म्मणि + ण्यत् । “भोज्यं भक्ष्ये ।” ७ । ३ । ६९ । इति निपातनात् न कुत्वम्)
भोजनीयद्रव्यम् । यथा, “भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥” इति चाणक्ये ५१ श्लोकः ॥ अपि च । “आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च । भोज्यं भक्ष्यं तथा चर्व्व्यं गुरु विद्याद्यथोत्तरम् ॥” चूष्यं इक्षुदण्डादि । पेयं पानकशर्करीदकादि । लेह्यं रसालाक्वथितादि । भोज्यं भक्तसूपादि । भक्ष्यं लड्डुकमण्डकादि । चर्व्व्यं चिपिटचण- कादि । इति भावप्रकाशः ॥ (पितॄणां तृप्त्यर्थं देये अन्नादौ च ॥)
भोज्यदानस्येतिकर्त्तव्यता यथा । ॐ अद्यामुके मासि अमुके पक्षे अमुकतिथौ अमुकगोत्रस्य पितुरमुकदेवशर्म्मण एकोद्दिष्टविधिकसाम्बत्- सरिकश्राद्धवासरे अमुकगोत्रस्य पितुरमुक- देवशर्म्मणोऽक्षयस्वर्गकाम इदं सघृतसवस्त्रोप- करणामान्नभोज्यमर्च्चितं श्रीविष्णुदैवतं यथा- सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । ततो दक्षिणा । ॐ अद्येत्यादि कृतैतत्सघृत- सवस्त्रोपकरणामान्नभोज्यदानकर्म्मणः साङ्गतार्थं दक्षिणामिदं काञ्चनमूल्यं श्रीविष्णुदैवतं यथा- सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । कृतै- तत्सघृतसवस्त्रोपकरणामान्नभोज्यदानकर्म्मा- च्छिद्रमस्तु । इति श्राद्धप्रयोगतत्त्वम् ॥