वाचस्पत्यम्
भौत्य || पु० भूतेरपत्यं बा० यक् । चतुर्दशमनौ हरिवं ७ अ० । “बभूवाङ्गिरसःपुत्रो भूतिर्नाम्नातिकोपनः” इत्युपक्रमे मार्कपु० १०० तदुत्पत्त्यादिकमुक्तम् ।
शब्दकल्पद्रुमः
भौत्यः || पुं, (भूतेरपत्यं पुमान् । भूतिः + अप- त्यार्थे ष्यञ् ।)
भूतिमुनिपुत्त्रश्चतुर्द्दशो मनुः । यथा, — मार्कण्डेय उवाच । “अतः परन्तु भौत्यस्य त्वमुत्पत्तिं निशामय । देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान् ॥ बभूवाङ्गिरसः पुत्त्रो भूतिर्नाम्नातिकोपनः । तस्य भ्राता सुवर्च्चाभूद् यज्ञे तेन निमन्त्रितः ॥ यियासुः शान्तिनामानं शिष्यमाह महामुनिः । सदोद्युक्तं सदाचारमुदारं मुनिसत्तमम् ॥ भूतिरुवाच । अहं यज्ञं गमिष्यामि भ्रातुः शान्ते ! सुवर्च्चसः । तेनाहूतस्त्वया चेह यत् कर्त्तव्यं शृणुष्व तत् ॥ अतिजागरणं वह्नेस्त्वया कार्य्यं ममाश्रमे । तथा तथाप्रमत्तेन यथाग्निर्न शमं व्रजेत् । इत्याज्ञप्ते तथेत्युक्तः स तु शिष्येण शान्तिना । जगाम यज्ञं तं भ्रातुराहूतः सन् यवीयसा ॥ प्रशान्तस्तावदनलो योऽसौ भूतिपरिग्रहः । तं दृष्ट्वा सोऽनलं शान्तं शान्तिरत्यन्तदुःखितः । भीतश्च भूतेर्बहुधा चिन्तयन् स महाद्युतिः ॥ मार्कण्डेय उवाच । बहुधैवं विचिन्त्यासौ भीतस्तस्य तदा गुरोः । ययौ मतिमतां श्रेष्ठः शरणं जातवेदसम् ॥ स चकार ततः स्तोत्रं सप्तार्च्चेर्यतमानसः । भूत्वैकचित्तो मेदिन्यां न्यस्तजानुः कृताञ्जलिः ॥ स एवं संस्तुतस्तेन भगवान् हव्यवाहनः । ज्वालामालावृततनुस्तस्यासीदग्रतो मुने ! ॥ परितुष्टोऽस्मि ते विप्र ! भक्त्या यत्ते स्तुतिः कृता । वरं ददामि भवतः प्रार्थ्यतां यत्तवेप्सितम् ॥ भगवन् ! कृतकृत्योऽस्मि यत्त्वां पश्यामि रूपिणम् । तथापि भक्तिनम्रस्य भगवन् ! श्रूयतां मम ॥ ममापराधात् संत्यक्तं यत्तेऽधिष्ट्यं विभावसो ! । तत्त्वयाधिष्ठितं सोऽद्य पूर्ब्बवत् पश्यतां द्बिजः ॥ तथान्यदपि मे देव ! प्रसादं कुरुषे यदि । पुत्त्रो विशिष्टो भवतु निरपत्यस्य मे गुरोः ॥ यथा च मैत्रीं तनये स करिष्यति मे गुरुः । तथा समस्तसत्त्वेषु भवत्वस्य मनो मृदु ॥ अग्निरुवाच । गुरोरर्थं त्वया ब्रह्मन् ! याचितं यद्वरद्वयम् । नात्मार्थे तेन मे प्रीतिस्त्वय्यतीव महामुने ! ॥ भविष्यत्येतदखिलं गुरोर्यत् प्रार्थितं त्वया । मैत्री समस्तभूतेषु पुत्त्रस्तस्य भविष्यति ॥ मन्वन्तराधिपः पुत्त्रो भौत्यो नाम भविष्यति । महाबलो महावीर्य्यो महाप्राज्ञो गुरोस्तव ॥ इत्युक्त्वा भगवानग्निः पश्यतस्तस्य वै मुने ! । वभूवादर्शनः सद्यः प्रदीपो निर्वृतो यथा ॥ एतस्मिन्नन्तरे सोऽपि गुरुस्तस्य महात्मनः । भ्रातुर्यवीयसो यज्ञादाजगाम स्वमाश्रमम् ॥ तस्यागतस्य शिष्योऽसौ चक्रे पादाभिबन्दनम् । गृहीतासनपूजश्च तमाह स तदा गुरुः ॥ वत्सातिहार्द्दं त्वयि मे तथान्येष्वपि जन्तुषु । न वेद्मि किमिदं त्वञ्चेद्वत्सैतत् कथयाशु मे ॥ ततः स शान्तिस्तत् सर्व्वमाचार्य्याय महात्मने । अग्निनाशादिकं विप्र ! समाचष्ट यथातथम् ॥ तच्छ्रुत्वा स परिष्वज्य स्नेहार्द्रनयनो गुरुः । शिष्याय प्रददौ वेदान् साङ्गोपाङ्गान् महात्मने ॥ भौत्थो नाम मनुस्तस्य पुत्त्रो भूतेरजायत । तस्य मन्वन्तरे देवानृषीन् भूपांश्च मे शृणु ॥ भविष्यस्य भविष्यांस्तु गदतो मम विस्तरात् । देवेन्द्रो यश्च भविता तस्य विख्यातकर्म्मणः ॥ चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा । रजोवृकाश्च इत्येते पञ्च देवगणाः स्मृताः ॥ शुचिरिन्द्रस्तथा तेषां त्रिदशानां भविष्यति । महाबलो महावीर्य्यः सर्व्वैरिन्द्रगुणैर्युतः ॥ अग्नीधश्चाग्निबाहुश्च शुचिर्युक्तोऽथ माधवः । शुक्रो जितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥ गुरुर्गभीरो ब्रध्नश्च भरश्चानुग्र एव च । स्त्रीमानी च प्रवीरश्च विष्णुः संक्रन्दनस्तथा ॥ तेजस्वी सुवलश्चैव भौत्यस्यैते मनोः सुताः । चतुर्द्दशं मयैतत्ते मन्वन्तरमुदाहृतम् ॥” इति मार्कण्डेयपुराणे मन्वन्तरानुवर्णननामा- ध्यायः ॥