संस्कृत-शब्दकोशः

भौत्य भौमजलं

भौम

वाचस्पत्यम्

भौम ||‍ पु० भूमेरपत्यं तस्या इदं वा अण् । १ नरकासुरे “त्वयि भौमं गते जेतुम्” माघः । २ मङ्गलग्रहे च । ३ भूमिभवे त्रि० मेदि । भौमजलगुणादिकम् अम्बुशब्दे ३३० पृ० दृश्यम् । ४ भूमिव्यापके अम्बरे धरणिः । ५ रक्तपुनर्नवायां राजनि०


शब्दकल्पद्रुमः

भौमः || पुं, (भूमेरपत्यं । भूमि + शिवादित्वादण् ।)
मङ्गलग्रहः । (यथा, वृहत्संहितायाम् । ५ । ६० । “पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्ञां च । भौमः समरविमर्द्दं शिखिकोपं तस्करभयञ्च ॥”)
नरकराजः । (यथा, हरिवंशे । १२० । १४ । “तासां पुरवरं भौमोऽकारयन्मणि- पर्व्वतम् ॥”)
तस्येदमित्यण् । भूमिभवे, त्रि । इति मेदिनी । मे, २२ ॥ (यथा, महाभारते । १ । १३६ । २० । “भौमेन प्राविशद्भूमिं पार्व्वतेनाभवद्गिरिः । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥”)
अम्बरः । इति धरणिः ॥ रक्तपुनर्नवा । इति राजनिर्घण्टः ॥



Correction: