शब्दकल्पद्रुमः
भ्रकुंसः || पुं, (भ्रुवा कुंसो भाषणं शोभा वा यस्य सः । ६ । ३ । ६१ । इत्यस्य “भ्रुकुंसादीनामकारो भवतीति वक्तव्यम् ।” इति वार्त्तिकोक्त्या उका- रस्यात्वम् ।)
स्त्रीवेशधारी नर्त्तकपुरुषः । तत्- पर्य्यायः । भ्रुकुंसः २ भ्रूकुंसः ३ । इत्यमरः । १ । ७४४ ॥ भृकुंसः ४ भ्रकुंशः ५ । इति तट्टीका ॥