संस्कृत-शब्दकोशः

भ्रभङ्ग भ्रमण

भ्रम

वाचस्पत्यम्

भ्रम ||‍ चलने दिवा० पर० सक० सेट् शमा० । भ्राम्यति अभ्रमीत् ।


वाचस्पत्यम्

भ्रम ||‍ चलने भ्वा० पर० अक० सेट् । भ्रमति कौटिल्ये इरित् । अभ्रमत् अभ्रमीत् । बभ्राम कणा० भ्रेमतुः बभ्रतुः ।


वाचस्पत्यम्

भ्रम ||‍ पु० भ्रम—घञ् । १ मिथ्याज्ञाने (अन्यथाभूतस्य वस्तुनो- ऽन्यथारूपेण ज्ञाने) २ जलनिर्गमस्थाने ३ कुन्दे (कुंद) ४ भ्रमणे च मेदि० । भ्रमश्च तद्वति तत्प्रकारकज्ञानम् । व्यधिकरणप्रकाराच्छिन्नविषयताशालिज्ञानम् । यत्प्रका- रिका या विषयता तत्प्रकारव्यधिकरणविषयताकज्ञानम् । स्वप्रकारव्यधिकरणविषयताकज्ञानम् । स्वव्यधिकरणप्र- कारावच्छिन्नविषयताप्रतियोगिज्ञानम्” (चि०) तदभाव- वन्निरूपिततन्निष्ठविषयताप्रतियोगिताकतदभाववति तत्- सम्बन्धेन तद्धर्मविशिष्टतन्निरूपितवैशिष्ट्यविषयताशासि ज्ञानम् । विशेष्यितासम्बन्धेन तत्तद्व्यक्तित्वावच्छिन्नप्रतियो- तिताकतदभाववदवच्छिन्ना या तद्व्यक्तिप्रकारिता त- च्छालिज्ञानम् । (मू० मा०) “मिथ्याज्ञानापरपर्य्यायोऽयं निश्चयः” (गौ० वृ०) अतस्मिंस्तद्ग्रहः (भा० प०) । तद- भाववति तत्प्रकारकं ज्ञानम् यथा शुक्तौ इदं रजतम् इति ज्ञानम् । (त० प्र०) भ्रमो द्विविधः । विपर्य्यासः संशयश्च । तद्धेतवश्च दोषा दोषशब्दे ३७६३ पृ० दृश्याः


वाचस्पत्यम्

भ्रम ||‍ भ्वा० पर० अक० सेट् । भ्रमति अभ्रमीत् फणा० भ्रेमतुः बभ्रमतुः चङि न ह्रस्वः । ज्वला० भ्रमः भ्रामः ।


शब्दकल्पद्रुमः

भ्रम || इर् चाले । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
इर् अभ्रमत् अभ्रमीत् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भ्रम || उ ज ण चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।)
उ भ्रमित्वा भ्रान्त्वा । ज भ्रामः भ्रमः । ज्वलादित्वाण्णप्रत्ययेऽपि जनबध इत्यादिना ह्रस्वे भ्रम इत्येव । तेन ज्वलादावस्य पाठो निष्फल इति धातुप्रदीपा- दयः । वस्तुतस्तु । ज्वलादिपाठसामर्थ्यान्न ह्रस्वः । ण भ्रेमतुः बभ्रमतुः । य भ्रम्यति भ्रमति । चाल इह पादविहरणम् । “न जाने को हेतुर्भ्रमति विपिने भिक्षुक इव ।” भ्रेमुः शिलोच्चयान् भीमानित्यत्र गत्यर्थविवक्षया सकर्म्मकत्वम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

भ्रमः || पुं, (भ्रमु अनवस्थाने इति । भ्रम + भावे घञ् ।)
मिथ्याज्ञानम् । (यथा, राजतरङ्गि- ण्याम् । ३ । ४२३ । “देवो जगाद तं भद्र ! कोऽयं ते मनसि भ्रमः ॥”)
तत्पर्य्यायः । भ्रान्तिः २ मिथ्यामतिः ३ । इत्य- मरः । १ । ५ । ४ । अम्बुनिर्गमः । कुन्दः । (यथा, रघौ । ६ । ३२ । “अवन्तिनाथोऽयमुदग्रबाहु- र्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजाः त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥” “चक्रभ्रमं चक्राकारशस्त्रोत्तेजनयन्त्रम् । भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके ॥” इति तट्टीकायां मल्लिनाथः ॥)
भ्रमणम् । इति मेदिनी । मे, २० ॥ (यथा, कथासरित्सागरे । २७ । ४६ । “एवं किलोक्त्वा व्यसृजत् तं भ्रमाय बणिक्- सुतम् ।”)
न्यायमते भ्रमस्य नामान्तरं अप्रमा । भ्रमो- द्विविधः । विपर्य्यासः संशयश्च । आद्यो यथा । देहे आत्मबुद्धिः । शङ्खादौ पीततामतिः । सा निश्चयरूपा । द्वितीयो यथा । किंस्विन्नरो वा स्थाणुर्वा इत्यादिबुद्धिः । तस्य कारणम् । पित्तदूरत्वमोहभयादिनानाविधदोषः । यथा, “अप्रमा च प्रमा चेति ज्ञानं द्विविधमुच्यते । तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥ तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः । आद्यो देहे यात्मबुद्धिः शङ्खादौ पीततामतिः ॥ भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते । किंस्विन्नरो वा स्थाणुर्व्वेत्यादिबुद्धिस्तु संशयः ॥ तदभावप्रकारा धीस्तत्प्रकारा तु निश्चयः । स संशयो भवेद् या धीरेकत्राभावभावयोः ॥ साधारण्यादिधर्म्मस्य ज्ञानं संशयकारणम् । दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ॥ पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ।” इति भाषापरिच्छेदः । १२७ — १३२ ॥ (भ्रमणशीले, त्रि ॥ यथा, ऋग्वेदे । ६ । ६ । ४ । “अधभ्रमस्त उर्व्विया विभाति यातयमानो अधिसानुपृश्नेः ॥” “भ्रमो भ्रमणशीलो ज्वालासमूहः ॥” इति तद्भाष्ये सायनः ॥ रोगविशेषः । तद्यथा, —
“मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः । चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्व्वदा । भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः ॥” इति वैद्यकमाधवकृतरुग्विनिश्चये मूर्च्छाधिकारे ॥ तथाचास्य चिकित्सा ॥ “शतावरी बलामूलद्राक्षासिद्धं पयः पिबेत् । ससितं भ्रमनाशाय बीजं वाट्यालकस्य च ॥ पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये । त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा ॥ इति वैद्यकचक्रपाणिसंग्रहे मूर्च्छाद्यधिकारे ॥)


शब्दकल्पद्रुमः

भ्रम || भ य चाले । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-सेट् ।)
भ य भ्राम्यति । इति दुर्गादासः ॥



Correction: