संस्कृत-शब्दकोशः

भ्रमरप्रिय भ्रमरविलसिता

भ्रमरमारी

वाचस्पत्यम्

भ्रमरमारी ||‍ स्त्री भ्रमरं मारयति मारि अण् उप० स० गौरा० ङीष् । भृङ्गारिलतायाम् राजनि० । भृङ्गार्य्यादयोऽप्यत्र “भ्रमरारिश्च तिक्ता स्यात् पित्तश्लेष्मकफापहा । त्रिदोष- कुष्ठकण्डूतिशोफव्रणविनाशिनी” राजनि० ।


शब्दकल्पद्रुमः

भ्रमरमारी || स्त्री (भ्रमरान् मारयति गन्धोत्कर्षेण व्याकुलयतीति । मृ + णिच् + अण् । गौरादि- त्वात् ङीष् ।)
मालवदेशप्रसिद्धपुष्पवृक्ष- विशेषः । तत्पर्य्यायः । भ्रमरारिः २ भृङ्गारिः ३ भृङ्गमारी ४ मांसपुष्पिका ५ कुष्ठारिः ६ भ्रमरी ७ षष्टिलता ८ । अस्या गुणाः । तिक्त- त्वम् । पित्तश्लेष्मज्वरनाशित्वम् । शोफकण्डूति- कुष्ठब्रणदोषत्रिदोषनाशित्वञ्च । इति राज- निर्घण्टः ॥



Correction: