संस्कृत-शब्दकोशः

भ्रमासक्त भ्रमिन्

भ्रमि

वाचस्पत्यम्

भ्रमि is an alternate of भृमि. भृ(भ्र)मि ||‍ पु० भ्रम—इन् पृषो० वा संप्रसारणम् । (घूर्णा) १ वायुभेदे ३ भ्रमणे च । “किमु चक्रभ्रमिकारितागुणः” नैषधम् ।


शब्दकल्पद्रुमः

भ्रमिः || स्त्री (भ्रम + बाहुलकात् इः ।)
भ्रमणम् । तत्पर्य्यायः । भ्रमः २ । इत्यमरः । ३ । २ । ९ ॥ भ्रमी ३ । इति भरतः ॥ (मण्डलाकारगतिः ४ । तथाच नैषधचरिते । १ । ७३ । “अचीकरच्चारुहयेन या भ्रमी- र्निजातपत्रस्य तलस्थले नलः ।”)
मण्डलाकारसैन्यरचना । यथा, —
“वीरान् सहस्रशो दृष्ट्वा भ्रमिभिः पर्य्यवस्थितान् । लवो लवेन सन्धाय शरान् रोषप्रपूरितः ॥ भ्रमिराद्या सहस्रेण द्वितीयायुतसङ्ख्यया । तृतीयायुतयुग्मेन तुरीयायुतपञ्चभिः ॥ पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः । सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्युतान् ॥ मध्ये लवो भ्रमिव्याप्तः सञ्चरन् बह्निवत्तदा । दाहयामास सर्व्वान् वै सैनिकान् भ्रमिकार- कान् ॥” इति पाद्मे पातालखण्ड ६१ अध्यायः ॥



Correction: