वाचस्पत्यम्
भ्रष्ट || त्रि० भ्रश—क्त । च्युते गलिते स्वार्थे क । तत्रार्थे स च उपका० ।
शब्दकल्पद्रुमः
भ्रष्टं || त्रि (भ्रश् + कर्त्तरि + क्तः ।)
च्युतम् । अस्य पर्य्याया गलितशब्दे द्रष्टव्याः ॥ “अर्थाद्भ्रष्टस्तीर्थयात्रान्तु गच्छेत् सत्याद्भ्रष्टो रौरवं वै ब्रजेच्च । योगभ्रष्टः सत्यधृतिञ्च गच्छेत् राज्याद्भ्रष्टो मृगयां वै व्रजेच्च ॥” इति गारुडे नीतिसारे १०९ अध्यायः ॥