संस्कृत-शब्दकोशः

भ्रष्ट भ्राज

भ्रस्ज

वाचस्पत्यम्

भ्रस्ज ||‍ पाके तु० उ० सक० अनिट् । भृज्जति आर्द्धधातुके वा भर्जादेशः स च सेट् अभ्राक्षीत् अभर्जीत् । अभ्रष्ट अभर्जिष्ट । बभर्ज वभ्रज्ज ।


शब्दकल्पद्रुमः

भ्रस्ज || औ ञ श पाके । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-अनिट् ।)
रेफयुक्तादि- र्दन्त्योपधः । क्विपि संयोगादिलोपे भृट् । पाक इह भर्ज्जनम् । ञश भृज्जति भृज्जते मत्स्यं सूपकारः । औ अभ्राक्षीत् । इति दुर्गादासः ॥



Correction: