संस्कृत-शब्दकोशः

भ्राजिर भ्रातरौ

भ्राजिष्णु

वाचस्पत्यम्

भ्राजिष्णु ||‍ त्रि० भ्राज—इष्णुच् । १ दीप्तिशीले २ विष्णौ पु० । “भ्राजिष्णुर्भोजनं भोक्ता” विष्णुस० ।


शब्दकल्पद्रुमः

भ्राजिष्णुः || त्रि (भ्राज् + इष्णुच् ।)
अलङ्कारा- दिना दीप्तियुक्तः । इत्यमरः । २ । ६ । १०१ ॥ (यथा, भागवते । २ । ९ । १२ । “भ्राजिष्णुभिर्यः परितो विराजते लसद्विमाना बलिभिर्महात्मनाम् ॥”)
विष्णौ, पुं । यथा, तस्य सहस्रनामस्तोत्रे । भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ॥



Correction: