संस्कृत-शब्दकोशः

भ्रातृक भ्रातृजाया

भ्रातृज

वाचस्पत्यम्

भ्रातृज ||‍ पुंस्त्री० भ्रातुर्जायते जन—ड ५ त० । १ भ्रातुपुत्रे २ तत्कन्यायां स्त्री ।


शब्दकल्पद्रुमः

भ्रातृजः || पुं, (भ्रातुः सहोदरात् जायते इति । जन् + “पञ्चम्यामजातौ ।” ३ । २ । ९८ । इति डः ।)
भ्रातुरपत्यम् । तत्पर्य्यायः । भ्रात्रीयः २ । इत्य- मरः । २ । ६ । ३६ ॥ भ्रातृव्यः ३ भ्रातृपुत्त्रः ४ । इति शब्दरत्नावली ॥ (स्त्रियां टाप् । भ्रातृजा । भ्रातुष्पुत्त्र्याम् ॥)



Correction: