वाचस्पत्यम्
भ्रातृजाया || स्त्री ६ त० । भ्रातृपत्न्यां कलौ नियोगेनापि तद्- गमननिषेधो यथा “भ्रातृजायां कमण्डलुम्” कलिशब्दे १८७३ पृ० दृश्यम् । अनियोगेन तद्गमने दोषो यथा “भ्रातृजायापह्वारी च मातॄगामी भवेन्नरः” ब्रह्मवै० प्र० ५६ अ० । भ्रातृपत्न्यादयाऽप्यत्र ।
शब्दकल्पद्रुमः
भ्रातृजाया || स्त्री (भ्रातुर्जाया ।)
भ्रातृभार्य्या । (यथा, मेघदूते । १ । १० । “अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।”)
तत्पर्य्यायः । प्रजावती २ । इत्यमरः । २ । ६ । ३० ॥