संस्कृत-शब्दकोशः

भ्रूण भ्रूणहत्या

भ्रूणघ्न

वाचस्पत्यम्

भ्रूणघ्न ||‍ त्रि० भ्रूणं गर्भं हन्ति हन—क । भ्रूणहत्याकारके क्विप् भ्रुणहाप्यत्र । “अपि भ्रूणहनं मासात्” मनुः । तत्प्रायश्चित्तं प्रा० वि० उक्तं यथा “तत्र पुंस्त्रेन ज्ञाते पुरुषबधप्रायश्चित्तं स्त्रीत्वेन ज्ञाते स्त्री- बधप्रायश्चित्तम् । अविज्ञाते तु पुंबधप्रायश्चित्तमाह मनुः “हत्या गर्भमविज्ञातमेतदेव व्रतञ्चरेत् । राजन्यवैक्ष्यौ चेच्ज्ञानादात्रेयी (रजस्वलां) मेव च स्त्रियम्” एतदेवेति । ब्रह्मवधप्रायश्चित्तमित्यर्थः । ब्राह्मणीगर्भबधविधयमिदं तस्यैव प्रकृतत्वात् । क्षत्रियादिगर्भबधे तु यद्वर्णो गर्भस्त- द्वर्णबधप्रायश्चित्तं कार्य्यं यथा याज्ञवल्क्यः “यागस्य- क्षत्रविड्घाते चरेद्ब्रह्महणो व्रतम् । गर्भहा च यथा- वर्णं तथात्रेयीनिसूदनः” व्रतपदोपादानात् ज्ञानत इदम् अज्ञानतस्तदर्द्धं तेन ज्ञानकृते ब्राह्मणगर्भबधे द्वा- दशवार्षिकम् । क्षत्रियगर्भबधे त्रैवार्षिकं वैश्यगर्भबधे सार्द्धवार्षिकं शूद्रगर्भबधे नवमासिकं, धेनुसङ्कलनमप्यूह- नीयम्” ।



Correction: