वाचस्पत्यम्
भ्रे(भ्ले)ष || पतने चलने च अक० भ्वा० उभ० सेट् । भ्रे(भ्ले)षति ते अभ्रे(भ्ले)षीत् अभ्र(भ्ले)षिष्ट । ऋदित् चङि न ह्रस्वः । अबिभ्रे(भ्ले)षत् त । तत्र पतने आ० भये चलने उभ० अक० इति भेदः ।
वाचस्पत्यम्
भ्रेष || पु० भ्रेष—घञ् । उचितस्थानात् पतने अमरः । “कारणभ्रेषे कार्य्यभ्रेषो मा भूदिति” वृ० उ० भा० ।
शब्दकल्पद्रुमः
भ्रेष || ऋ ञ चले । भये । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-अक०-सेट् ।)
रेफयुक्तः । ऋ अबिभ्रेषत् । ञ भ्रेषति भ्रेषते घर्म्मात् खलः । बिभ्रेषे । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
भ्रेषः || पुं, (भ्रेष् चलने + भावे घञ् ।)
तथाच यथोचिताद्भ्रंशः । इत्यमरः ॥ (यथा, पातञ्जल- भाष्ये । ३ । १२ । “आसमाषिभ्रेषात् ।” इति ।)
चलनम् । इति भ्रेषधात्वर्थदर्शनात् ॥