वाचस्पत्यम्
मकारः || पवर्गस्य पञ्चमवर्णः । अस्योच्चारणस्यानमोष्ठौ नासिका च जिह्वाग्रेण ओष्ठयोः स्यर्शेनोच्चारणम् आभ्यन्तरः प्रयत्नः अतएवास्य स्पर्शवर्णता अशुनासिकता च । बाह्य- प्रयत्नाश्च संवारनादघोषाः अस्त्रप्राणश्च । अस्य ध्येव- स्वरूपसुक्तं कामधेनुत० “मकारं शृणु चार्वङ्गि! स्वयं परमकुण्डली । तरुणादित्यसङ्काशं चतुर्वर्गप्रदाघकम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा” । वर्णाभिधानेऽस्य पर्य्यावा उक्त्रा यथा “मः कासी क्लेशितः कालो महाकालो महान्तकः । वैकुण्ठो बसुधा चन्द्रो- रविः पुरुषराजकः । कासभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः । जठरञ्च भ्रमो मानं सक्ष्मीर्मातोग्रबन्धनी । विषं शिवो महावीरः शशिप्रभा जनेश्वरः । प्रमतः प्रियसृ रुद्रः सर्वाङ्गो वह्निमण्डलम् । मातङ्गमालिनी विन्दुः श्रवणा भरयो वियत्” । तदधिष्ठानृदेवताध्यानं यथा “कृष्णां दशभुजां भीमां पीतलोहिमसोचनाम् । कृष्णाम्बरधरां नित्यां धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा मकारन्तु तन्मन्त्रं दशधा जपेत्” । मातृका- न्यासेऽस्य जठरे न्यास्यता । काव्यादौ प्रथमं प्रयोगे दुःखं फलं “सुखभयमरणं क्लेशदुःखं पवर्गः” वृ० र० टी० उक्तेः ।
वाचस्पत्यम्
मकार || पु० म + स्वरूपे कार । मस्वरूपे वर्णे । मकारादिर्वर्ण आद्यक्षरेऽस्त्यस्य अच् । मद्यमत्स्यमांसमैथुनमुद्रारूपे मकारादिवर्णयुक्ते तन्त्रोक्ते पदार्थपञ्चके ।