वाचस्पत्यम्
मकुट || न० मकि—भूषणे उट पृषो० । शिरोभूषणे मुकुटे द्विरूपको० ।
शब्दकल्पद्रुमः
मकुटं || क्ली (मङ्कते अनेनेति । मकि भूषणे + बाहुलकात् उटः । आगमशास्त्रस्यानित्यत्वात् न नुम् ।) मुकुटम् । इति भरतधृतद्बिरूपकोषः ॥