वाचस्पत्यम्
मकूलक || पु० मकि—ऊलच् पृषो० संज्ञायां कन् । १ दन्तीवृक्षे अमरः । २ मुकुले रमानाथः ।
शब्दकल्पद्रुमः
मकूलकः || पुं, (मकि मण्डने + पिच्छादित्वादूलच् बाहुलकादनुषङ्गलोपः । स्वार्थे कन् ।” इत्यमर- टीकायां रघुनाथः ।)
मुकूलकः । दन्तीवृक्षः । इत्यमरटीकायां रमानाथः ॥ (पर्य्यायोऽस्य यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “लघुदन्ती विशल्या च स्याद्दुम्बरपर्ण्यपि । तथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया । वाराङ्गी चैव कथिता निकुम्भश्च मकूलकः ॥”)