शब्दकल्पद्रुमः
मकुष्ठकः || पुं, (मकुष्ठ + स्वार्थे कन् ।)
वनमुद्गः । इति भरतः ॥ (तथाच पर्य्यायाः ॥ मकुष्ठो वनमुद्गः स्यान्मकुष्ठकमुकुष्ठकौ ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ अस्य गुणा यथा, सुश्रुते सूत्त्रस्थाने ४६ अः । “मकुष्ठकाः कृमिकराः कलायाः प्रचुरानिलाः ॥”)