संस्कृत-शब्दकोशः

मक्क मक्कुल

मक्कल्ल

वाचस्पत्यम्

मक्कल्ल ||‍ पु० शूलरोगभेदे “प्रजातायाश्च नार्य्या रूक्षशरीराया- स्तीक्ष्णैरविशोधितं रक्तं वायुना तद्देशगेनातिसंरुद्धं नाभेरधःपार्श्वयोर्वस्तौ वस्तिशिरसि वा ग्रन्थिं करोति । ततश्च नाभिवस्त्युदरशूलानि भवन्ति सूचीभिरिव निस्तु- द्यते भिद्यते दीर्य्यत इव च पक्वाशयः । समन्तादाध्मान- मुदरे सूत्रसङ्गश्च भवतीति मक्कल्ललक्षणम्” सुश्रुतः ।


शब्दकल्पद्रुमः

मक्कल्लः || पुं, (मक्कं गमनं आत्यन्तिकगतिं मरणं लाति आदत्ते योजयतीत्यर्थः । ला + कः पृषोदरात् लकारागमे साधुः ।)
शूलरोगविशेषः । यथा, “सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम् । यवक्षारं पिबेत्तत्र मस्तुनोष्णोदकेन वा ॥” इति चक्रपाणिदत्तः ॥



Correction: