वाचस्पत्यम्
मक्षिका || स्त्री मश—सिकन् । कीटभेदे वंभरालीकीटे (मौ- माछि) उज्वल० पृषो० दीर्घः तत्रार्थे राजनि० ।
शब्दकल्पद्रुमः
मक्षिका || स्त्री (मशति शब्दायते इति । मश + “हनिमशिभ्यां सिकन् ।” उणा० । ४ । १५३ । इति सिकन् ।)
कीटविशेषः । माछि इति भाषा ॥ (यथा, भागवते । ५ । १४ । ४२ । “आर्षभस्येह राजर्षेर्मनसापि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥”)
तत्पर्य्यायः । मक्षीका २ भम्भः ३ माचिका ४ गन्धलोलुपा ५ पतङ्गिका ६ पत्तिका ७ । इति शब्दरत्नावली ॥ अमृतोत्पन्ना ८ वमनीया ९ पलङ्कषा १० । इति राजनिर्घण्टः ॥ नीला मक्षिका वर्वणा ११ । इत्यमरः । २ । ५ । २६ ॥ तन्नाशकधपो यथा, —
“त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् । लाक्षासर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एतैर्धूपैर्मक्षिकाणां मशकानां विनाशनम् ॥” इति गारुडे १८१ अध्यायः ॥