संस्कृत-शब्दकोशः

मगण मगधा

मगध

वाचस्पत्यम्

मगध ||‍ पु० मङ्ग्यते अधोगम्यतेऽनेन मगि—क पृषो० भगं दोषं पापं वा दधाति धा—क । १ देशभेदे २ तद्देशस्थे जने ब० व० । स च कीकटेतिसंज्ञः अङ्गदेशस्थश्च । कीकटेषु गया पुण्या नदी पुण्या पुनःपुना” इत्युक्तेः गयादी- नामेव पुण्यत्वम् । अन्येषामपुण्यत्वं प्रत्युत पापजनक- त्वम् “अङ्गवङ्गकलिङ्गान्ध्रान् गत्वा संस्कारमर्हति” मिता० देवलोक्तेः । “तीर्थयात्रा व्यतिरेकेणैतान् गत्वा तत्रैव चिरसुषित्वा गङ्गागमनं प्रायश्चित्तम् । तदशक्तौ पुनरुप- नयनं अतिचिरवासे तु पुनरुपनयनं कृत्वा चान्द्रायणं कर्त्तव्यम्” प्रा० वि० । अतस्तस्य पापजनकत्वात् तथा- त्वम् । ततः भवार्थे गहा० छ । मगधीय तत्र भवे त्रि०


शब्दकल्पद्रुमः

मगधः || पुं, (मगि + अच् । पृषोदरादित्वान्निष्पन्नः । मगं दोषं दधाति । धा + “आतोऽनुपसर्गे ।” ३ । २ । ३ । इति कः । यद्वा, कण्ड्वादिमगध + अच् ।)
कीकटदेशः । अधुना वेहाराख्यदेशस्य दक्षिण- भागः । तद्देशस्थे पुं भूम्नि । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । ८ । ४५ । ४८ । “इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोशलाः । अर्द्धोक्ताः कुरुपाञ्चालाः शाल्याः कृत्स्नानु- शासनाः ॥”)
बन्दी । इति हेमचन्द्रः । ७९५ ॥



Correction: