वाचस्पत्यम्
मगधोद्भवा || स्त्री मगधदेशे बाहुल्येनोद्भवति अच् । पिप्प- ल्याम् राजनि० । तद्देशे तस्याः प्रचुरभवत्वात्तथात्वम् ।
शब्दकल्पद्रुमः
मगधोद्भवा || स्त्री (मगधे उद्भवो यस्याः ।)
पिप्पली । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते कल्प- स्थान एकादशाध्याये । “फलं बृहत्या मगधोद्भवाना- मादाय कल्कं फलपाककाले ।”)
मगधदेशजाते त्रि ॥