संस्कृत-शब्दकोशः

मग्न मघवती

मघ

वाचस्पत्यम्

मघ ||‍ कैतवे द्यूतक्रीडादौ अक० गतौ निन्दायां आरम्भे च सक० भ्वा० आ० सेट् इदित् । मङ्घते अमङ्घिष्ट ।


वाचस्पत्यम्

मघ ||‍ पु० मघि—अच् पृषो० । १ द्वीपभेदे मेदि० । (मग)नामके २ म्लेच्छदेशभेदे । ३ पुष्पभेदे न० शब्दरत्ना० ।


वाचस्पत्यम्

मघ ||‍ भूषणे भ्वा० पर० सक० सेट् इदित् । मङ्घति अमङ्घीत् ।


शब्दकल्पद्रुमः

मघ || इ ङ कैतवाध्यार्थयोः । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-द्यूतक्रीडादौ अक०-गतौ निन्दायां आरम्भे च सक०-सेट् ।)
कैतवमिह कितवक्रिया अक्षक्रीडनादिः । इ मङ्घ्यते ङ मङ्घते अक्षैः कितवः । अध्यर्थो गतिनिन्दा- रम्भजवाः । कैतवजवयोरेवायमिति केचित् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मघ || इ ङ भूषे । कविकल्पद्रुमः ॥ (भ्वा० आत्म०- सक० सेट् ।)
इ, मङ्घ्यते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मघः || पुं, (मघि + अच् । पृषोदरात् साधुः ।)
द्बीपविशेषः । इति मेदिनी । घे, ४ ॥ देश- विशेषः । स तु मग्नामकम्लेच्छानां स्थानम् ॥ पुष्पविशेषे क्ली । इति शब्दरत्नावली ॥ (क्लीं मंहनीयं धनम् । यथा, ऋग्वेदे । ७ । २१ । ७ । “इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहु वन्तसातौ ॥” “मघानि मंहनीयानि धनानि ।”)
इति तद्भाष्ये सायनः ।)



Correction: