वाचस्पत्यम्
मघवन्(त्) || पु० मह—कनिन् नि० हस्य घः “मथवा बहुलम्” पा० वा तृच् । १ इन्द्रे अमरः २ तन्नामनामके पेचके च । तृचि मघवान् अतृचि मघवा । एवं मघ- वानौ मघवन्तावित्यादिरूपद्वयम् । भत्वे अन्नन्तस्य सम्प्र० । मघोनः तृजन्तस्य न मघवतः इत्यादि ङीपि मघोनी मघवतीत्यादि तद्धिते न सम्प्र० । माघवनम् इत्यादि भाष्ये तु मघशब्दात् मतुपिरूपं साधयित्वा शब्दान्तर- मित्युक्त्वा न तृजित्युक्तम् ।
शब्दकल्पद्रुमः
मघवा || [न्] पुं, (मह्यते पूज्यते इति । मह- पूजायाम् । “श्वन्नुक्षन् पूषन् प्लीहन्निति ।” उणा० । २ । १५८ । इति कनिन् । निपातनात् हस्य घः अवुगागमश्च ।)
इन्द्रः । इत्यमरः १ । १ । ४४ ॥ (यथा, रघौ । १ । २६ । दुदोह गां स यज्ञाय शस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्बयम् ॥”)
जिनानां द्वादशचक्रवर्त्त्यन्तर्गतचक्रवर्त्तिविशेषः । इति हेमचन्द्रः ॥ (सप्तमद्वापरस्य व्यासः । यथा, देवीभागवते । १ । ३ । २८ । “मघवा सप्तमे प्राप्रे वशिष्ठस्त्वष्टमे स्मृतः ।”)