संस्कृत-शब्दकोशः

मघा मघाभव

मघात्रयोदशी

वाचस्पत्यम्

मघात्रयोदशी ||‍ स्त्री मघानक्षत्रेण युक्ता त्रयोदशी शा० त० । भाद्रकृष्णत्रयोदश्यां तत्रैव मघानक्षत्रसंयोगसम्भवात् । तत्र श्राद्धमावश्यकं यथोक्तं ति० त० ||‍“प्रौष्ठपद्यूर्ध्वं कृष्णत्रयोदश्यां मधायुक्तायामनिषिद्ध यत्किञ्चिद्द्रव्येण श्राद्धमावश्यकं शङ्खादिविधिवाक्ये नक्षत्रविशिष्टतिथेः श्रुतेः । ततश्च केवलत्रयोदशीकेवल- मघाश्राद्धार्थवादा अपि क्लप्तविशिष्टविधिप्राप्तकर्मणो नित्यत्वबोधकाः न तु केवलबिध्यन्तरकल्पना गौरवात् । तथाच शङ्खः “प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयो- दशीम् । प्राप्य श्राद्धं हि कर्त्तव्यं मधुना पायसेन च” मनुः “यत्किञ्चित् मधुना मिश्रं प्रपद्यात्तु त्रयोदशीम् । तदप्यक्षयमेव स्यात् वर्षामु च मघासु च” । विष्णु- धर्मोत्तरम् “पौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः” । शाता- तपः “पितरः स्मृहयन्त्यन्नमष्टकासु मघासु च । तस्मा- द्दद्यात् सदोद्युक्ता विद्वत्सु ब्राह्मणेषु च” । अत्रान्न- मात्रश्रुतेः मनुवचने यत्किञ्चिदिति श्रुतेश्च शङ्खोक्त- पायसः फलातिशयार्थः । “गुणविशेषे फकविशेषः स्यात्” इति न्यायात् । व्यक्तं विष्णुवर्मोत्तरे “मधायुक्ता च तत्रापि शस्ता राजंस्ययोदशो । तत्राक्षयं भवेच्छ्राद्धं मधुना पाडसेन च” । तत्राश्वयुक्कृष्णपक्षे । अत्र यत् श्राद्धं तन्मधुयोगेन पायसयोगेन बाऽक्षयं भवेत् । एवं मनुवचने यत्किञ्चिन्मधुना मिश्रम् इत्यगेन मधुनात्र- युक्तत्वसुक्तम् । अतोऽत्र सुतरां शूद्रस्याप्यधिकारः । अत्र गगच्छायायोगे फलातिशयः । तथाच कृत्यचिन्ता मणौ स्मृतिः “कृष्णपक्षे त्रयोदव्यां मघास्मिन्दुः करे रविः । यदा तदा गजच्छाया श्राद्धे पुण्यैरवाष्यते । करे हस्तानक्षत्रे कम्यादशकांशोपरि सपादत्रयोविंशांशं यावत् । अविभक्तानानप्यत्र पृथक् श्राद्धमावश्यकम्” । यथा श्राद्धचिन्तामणौ स्मृतिः “विभक्ता अविभक्ता बा कुर्युः श्राद्धमदैविकम् । मथासु च तधान्यत्र नाधि- कारः पृथन्विना” । अदैविकं प्रत्याब्दिकैकोद्दिष्टम् अन्यत्रं कृष्णवक्षादौ नाधिकारः न नित्याषिकारः । “स- पिण्डीकरणान्मानि यानि श्राद्धानि षोडश । पृथक् नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचित्” इत्यत्रापिना समुच्चितानामघृथम्द्रव्याणां पुंसां संपिण्डीकरणान्ता- नीति विशेषणात् तदुन्नरं श्राद्धानां पृथक्करणमपि प्रतीयते । मथात्रयोदशीनिमित्तकश्राद्धे पुत्रवता पिण्डा ग देयाः । “भौजङ्गीं तिषिमासाद्य यावच्चन्द्रार्क सङ्ग- मम् । तत्रापि महती पूजा कर्त्तव्या पितृदैवते । ऋक्षे पिण्डप्रदानन्तु ज्येष्ठपुत्री विवर्जयेत्” इति देवीपुराणात् भोजङ्गीं पञ्चनीं चन्द्रार्कसङ्गमम् अमावास्यां पितृदैवते ऋणे मघायाम । शातातषः “पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते । स्मधावाचनमोपोऽत्र विकिरस्तु न लुप्यते । अक्षय्यदक्षिणा स्मस्ति लौमनस्यं तथाण्विति” रघु० ।


शब्दकल्पद्रुमः

मघात्रयोदशी || स्त्री (मघा दशमनक्षत्त्रम् । मघा- युक्ता त्रयोदशी । इति मध्यपदलोपी कर्म्म- धारयः ।)
मघानक्षत्रयुक्तभाद्रकृष्णत्रयोदशी । यथा । प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयोदश्यां मघायुक्तायां अनिषिद्धयत्किञ्चिद्द्रव्येण श्राद्धमावश्यकम् । शङ्खादिविधिवाक्येषु नक्षत्रविशिष्टश्रुतेः । ततश्च केबलत्रयोदशी केबलमघा श्राद्धार्थवादा अपि कऌप्तविशिष्टविधिप्राप्तकर्म्मणो नित्यत्वबोधका न तु केवलविध्यन्तरकल्पका गौरबात् । तथा च शङ्खः । “प्रौष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् । प्राप्प श्राद्धं हि कर्त्तव्यं मधुना पायसेन च ॥” मनुः । “यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् । तदप्यक्षयमेव स्याद्बर्षासु च मघासु च ॥” विष्णुधर्म्मोत्तरे । “प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः ॥” शातातपः । “पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च । तस्माद्दद्यात् सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च ॥” अत्रान्नमात्रश्रुतेः मनुवचने यत्किञ्चित् श्रुतेश्च शङ्खोक्तपायसः फलातिशयार्थः गुणविशेषे फल- विशेषः स्यादिति न्यायात् । व्यक्तं विष्णुधर्म्मोत्तरे । “मघायुक्ता च तत्रापि शस्ता राजंस्त्रयोदशी । तत्राक्षयं भवेत् श्राद्धं मधुना पायसेन च । तत्र अश्बयुक्कृष्णपक्षे । अत्र यत् श्राद्धं तन्मधु- योगेन वा अक्षयं भवेत् । अतएव मनुवचने यत्किञ्चिन्मधुना मिश्रमित्यनेन मधुमात्रयुक्तत्व- मुक्तम् । अतोऽत्र सुतरां शूद्रस्याधिकारः ॥ * ॥
अत्र गजच्छायायोगे फलातिशयः । तथा कृत्य- चिन्तामणौ स्मृतिः । “कृष्णपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः । यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ॥” करे हस्तानक्षत्रे । कन्यादशमांशोपरि सपाद- त्रयोविंशांशः इति यावत् ॥ * ॥
अविभक्ता- नामप्यत्र पृथक् श्राद्धमावश्यकम् । यथा, श्राद्धचिन्तामणौ स्मृतिः । “विभक्ता अविभक्ता वा कुर्य्युः श्राद्धमदैविकम् । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥” अदैविकं प्रत्याब्दिकैकोद्दिष्टम् । अन्यत्र कृष्ण- पक्षादौ नाधिकारः न नित्याधिकारः सपिण्डी- करणान्तानि यानि श्राद्धानि षोडश । पृथङ्- नैव सुताः कुर्य्युः पृथग्द्रव्या अपि क्वचिदित्य- त्रापिना समुच्चितस्यापृथग्द्रव्यस्य पुंसः सपिण्डी- करणान्तानीति विशेषणात्तदुत्तरश्राद्धानां पृथक्त्वमपि प्रतीयते ॥ * ॥
मघात्रयोदशी- निमित्तके श्राद्धे पुत्त्रवता पिण्डा न देयाः । “भौजङ्गीं तिथिमासाद्य यावच्चन्द्रार्कसङ्गमम् । तत्रापि महती पूजा कर्त्तव्या पितृदैवते । ऋक्षे पिण्डप्रदानन्तु ज्येष्ठपुत्त्री विवर्जयेत् ॥” इति देवीपुराणात् । भौजङ्गी पञ्चमी । चन्द्रार्क- सङ्गमोऽमावास्या । पितृदैवते ऋक्षे मघायाम् । शातातपः । “पिण्डनिर्व्वापरहितं यत्तु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥ अक्षय्यं दक्षिणा स्वस्ति सौमनस्यं यथास्त्विति । इति तिथ्यादितत्त्वम् ॥



Correction: