संस्कृत-शब्दकोशः

मङ्गलकुसुमा मङ्गलचण्डी

मङ्गलचण्डिका

शब्दकल्पद्रुमः

मङ्गलचण्डिका || स्त्री (मङ्गला मङ्गलदायिका चासौ चण्डिका चेति । यद्वा, सृष्टौ मङ्गला प्रलये चण्डिका । अथवा मङ्गले चण्डिका दक्षा ।)
मङ्गलचण्डी । यथा, कालिकापुराणे । “यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका । वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥ रक्तपद्मासनस्था च रत्नकुण्डलमण्डिता । रक्तकौषेयवस्त्रा च स्मितवक्त्वा शुभानना ॥ नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा । उमया भाषितं मन्त्रं यत् पूर्ब्बन्त्वेकमक्षरम् । मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत् ॥” एकमक्षरं शक्तिबीजरूपम् । “अष्टम्याञ्च नवम्याञ्च पूजा कार्य्या विवृद्धये । पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकाम् ॥ यः पूजयेद्भौमदिने शुभर्द्दूर्व्वाक्षतैः शुभाम् । सततं साधकः सोऽपि काममिष्टमवाप्नुयात् ॥ * ॥
मङ्गलवारे कृष्णाष्टमीचतुर्द्दश्यौ चेत् पुण्यतरै भवतः । यथा, —
“शनैश्चरस्य वारेण वारेणाङ्गारकस्य च । कृष्णाष्टमीचतुर्द्दश्यौ पुण्यात् पुण्यतरे स्मृते ॥ * ॥
मङ्गलवारे शुक्ला चतुर्थी चेदक्षया भवति । यथा, —
“सोमवारेऽप्यमावास्या आदित्याहे च सप्तमी । चतुर्थ्यङ्गारके वारे त्वष्टमी च बृहस्पतौ ॥ अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः । षष्टिवर्षसहस्राणि प्रतिजन्म तदक्षयम् ॥” इति तिथ्यादितत्त्वम् ॥



Correction: