वाचस्पत्यम्
मङ्गल्य || न० मङ्गलाय हितं यत् । १ चन्दने २ मङ्गलागुरुणि ३ स्वर्णे ४ सिन्दूरे राजनि० ५ दध्नि च । ६ रुचिरे त्रि० हेम० ७ मङ्गलकरे त्रि० मेदि० । “सर्वमङ्गलमङ्गल्ये” इति देवीमा० । ८ षश्वत्थे ९ बिल्वे १० जीरके० ११ मसूरके च पु० मेदि० १२ नारिकेले १३ कपित्थे १४ रीठाकरञ्जे च पु० राजनि० । १५ त्रायमाणौषधौ पु० धरणिः ।
शब्दकल्पद्रुमः
मङ्गल्यं || क्ली (मङ्गलाय साधु इति । मङ्गल + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।)
दधि । इति मेदिनी । ये, १०१ ॥ चन्दनम् । मङ्गल्यागुरु । स्वर्णम् । सिन्दूरम् । इति राज- निर्घण्टः ॥
शब्दकल्पद्रुमः
मङ्गल्यं || त्रि (मङ्गलाय साधु । मङ्गल + यत् ।)
शिवकरम् । इति मेदिनी । ये, १०१ ॥ (यथा, उत्तरचरिते । ७ म अङ्के । “पाप्मभ्यश्च पुनाति वर्द्धयति च श्रेयांसि येयं कथा । मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ॥” यथाच, महाभारते । १ । १ । २४ । मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् । नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥”)
रुचिरम् । इति हेमचन्द्रः ॥ साधुः । इति धरणिः ॥
शब्दकल्पद्रुमः
मङ्गल्यः || पुं, (मङ्गलाय साधुः । मङ्गल + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।)
त्राय- माणा । अश्वत्थः । विल्वः । मसूरकः । इति मेदिनी । ये, १०० ॥ जीवकः । नारिकेलः । कपित्थः । रीठाकरञ्जः । इति राजनिर्घण्ठः ॥ (जीव इति ख्यातः शाकषिशेषः । तत्पर्य्यायो यथा, —
“जीवन्ती जीवनी जीवा जीवर्न या मधुस्रवा । मङ्गल्यनामधेया च शाकश्रेष्ठा पयस्विनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)