संस्कृत-शब्दकोशः

मङ्गल्य मङ्गल्यकुसुमा

मङ्गल्यक

वाचस्पत्यम्

मङ्गल्यक ||‍ पु० मङ्गलग्रहस्य प्रियः तद्दोषनिवारणार्थं दीय- मानत्वेन शास्त्रविधानात् । मसूरे अमरः ।


शब्दकल्पद्रुमः

मङ्गल्यकः || पुं, (मङ्गल्य + संज्ञायां कन् । यद्वा मङ्गलस्य मङ्गलग्रहस्य प्रियः इति यत् । ततः स्वार्थे कन् ।)
मसूरः । इत्यमरः । २ । ९ । १७ ॥ (तथास्य पर्य्यायः । “मङ्गल्यको मसूरः स्यान्मङ्गल्या च मसूरिका ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: