संस्कृत-शब्दकोशः

मङ्गुष मचक्रुक

मच

वाचस्पत्यम्

मच ||‍ उच्चताकरणे धारणे पूजायां च सक० दीप्तौ अक० भ्वा० आत्म० सेट् इदित् । मञ्चते अमञ्चिष्ट । मञ्च्यते ।


वाचस्पत्यम्

मच ||‍ दम्भे शाठ्ये च अक० भ्वा० आ० सेट् । मचते अमचिष्ट मेचे ।


शब्दकल्पद्रुमः

मच || इ ङ उच्छ्रायधृत्यर्च्चाभाःसु । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-धृतौ अर्च्चायाञ्च सक०-दीप्तौ उच्चीभावे च अक०-सेट् ।)
इ मञ्च्यते । ङ मञ्चते । उच्छ्राय उच्चीभावः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मच || ङ च कल्कने । दम्भे । शाठ्ये । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-दम्भे शाठ्ये च । अक०-कल्कने-सक०-सेट् ।)
कल्कनमिति कल्कं करोतीति ञौ रूपं चूर्णीकरणमित्यर्थः । ङ मचते तण्डुलं शिला चकारात् मचि ङ । इति दुर्गादासः ॥



Correction: