संस्कृत-शब्दकोशः

मज्जकृत् मज्जन

मज्जत्

वाचस्पत्यम्

मज्जत् ||‍ पु० मस्ज—कनिन् । १ अस्थिजाते अस्थिमध्यस्थे स्नेहा- कारे पदार्थे २ वृक्षादेः सारांशे च अमरः । फलमज्ज- गुणाः “यस्य यस्य फलस्थेह वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमपि निर्दिशेत्” राजवल्लभः “अस्थि यत्स्वाग्निना पक्वं तस्य सारो द्रवो घनः । यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते” । मज्ज- स्थानमाह “स्थूलादिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः” भावप्र० ।



Correction: