शब्दकल्पद्रुमः
मज्जा || [न्] पुं, (मज्जति अस्थिष्विति । मस्ज् + “श्वन् उक्षन् पूषन् प्लीहन् क्लेदन् स्नेहन् मूर्द्धन् मज्जन्नित्यादि ।” उणा० । १ । १५८ । इति कनिन् निपात्यते च ।)
वृक्षादेरुत्तमस्थिरभागः । सार इति ख्यातः । इत्यमरभरतौ ॥ फलमज्जगुणो यथा, —
“यस्य यस्य फलस्येह वीर्य्यं भवति यादृशम् । तस्य तस्यैव वीर्य्येण मज्जानमभिनिर्द्दिशेत् ॥” इति राजवल्लभः ॥ अस्थिमध्यस्थस्नेहविशेषः । तत्पर्य्यायः । कौशिकः २ शुक्रकरः ३ अस्थिस्नेहः ४ अस्थिसम्भवः ५ । इति हेमचन्द्रः । ६ । १९ ॥ अस्थिसारः ६ तेजः ७ बीजम् ८ अस्थिजम् ९ जीवनम् १० देहसारः ११ । इति राजनिर्घण्टः ॥ अथ मज्जस्वरूप- माह । “अस्थि यत् स्वाग्निना पक्वं तस्य सारो द्रवो घनः । यः स्वेदवत् पृथग्भूतः स मज्जेत्यभिधीयते ॥” अथ मज्जस्थानमाह । “स्थूलास्थिषु विशेषेण मज्जा त्वभ्यन्तरे स्थितः ।” इति भावप्रकाशः ॥ अस्य गुणाः । “बलशुक्ररसश्लेष्ममेदोमज्जविवर्द्धनः । मज्जा विशेषतोऽस्थ्नाञ्च बलकृत् स्नेहने हितः ॥” इति चरकः ॥ मज्जाशब्द आबन्तोऽपि । यथा । शणातसी- मूलकशिग्रुसिद्धैः पियालमज्जासहितैस्त्विति सुश्रुतः ॥ द्बयमेवाह त्रिकाण्डे भागुरिः ॥ “लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः ।” इत्यमरटीकायां भरतः ॥