वाचस्पत्यम्
मञ्च || पु० मचि—उच्छ्राये घञ् । १ खट्वायाम् अमरः (मांचा) वंशनिर्मिते २ उच्चासने ३ उच्चमण्डपमेदे हारा० “मञ्चस्थं रघुनन्दनम्” पुराणम् । स्वार्थे क । तत्रैव “वृद्धोऽन्धः पतिरेष मञ्चकगतः” इति सा० ३ प० ।
शब्दकल्पद्रुमः
मञ्चः || पुं, (मञ्चति । उच्चीभवतीति । मचि + घञ् ।)
खट्वा । इत्यमरः । २ । ७ । १३८ ॥ कर्णवंशः । माचा इति भाषा ॥ इति हारा- वली ॥ उच्चमण्डपविशेषः । यथा, —
“दोलायमानं गोविन्दं मञ्चस्थं मधुसूदनम् । रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते ॥” इति पुराणम् ॥