वाचस्पत्यम्
मञ्जिका || स्त्री मजि—ण्वुल् टाप् अत इत्त्वम् । वेश्यायां हारा० ।
शब्दकल्पद्रुमः
मञ्जिका || स्त्री (मञ्जयतीति । मञ्ज + ण्वुल् । टाप् । अत इत्वञ्च ।) वेश्या । इति हारावली ॥