वाचस्पत्यम्
मञ्जीरक || पु० मञ्जीर इव कायति शब्दायते कै—क । नुपूर- ध्वनितुल्यध्वनियुते ततः शिवा० अपत्ये अण् । माञ्जीर तदपत्ये पुंस्त्री० ।