संस्कृत-शब्दकोशः

मञ्जुगमना मञ्जुपाठक

मञ्जुघोष

वाचस्पत्यम्

मञ्जुघोष ||‍ पु० । तन्त्रोक्ते १ उपास्यदेवभेदे तन्त्रसारे दृश्यम् । २ पूर्वजिनभेदे त्रिका० । कर्म० । ३ मनोहरशब्दे पु० ।


शब्दकल्पद्रुमः

मञ्जुघोषः || पुं, (मञ्जुर्मनोहरो घोषः शब्दोऽस्य ।)
पूर्ब्बजिनभेदः । इति त्रिकाण्डशेषः ॥ उपास्य- देवताविशेषः । अस्य मन्त्रादि यथा, —
“जाड्यौघतिमिरध्वंसी संसारार्णवतारकः । श्रीमञ्जुघोषो जयतां साधकानां सुखावहः ॥” तत्रागमोत्तरे । “मातृकादि समुद्धत्य वह्निबीजं समुद्धरेत् । वामांसं कूर्म्मसंज्ञञ्च ततो मेषेशमुद्धरेत् ॥ मीनेशञ्च ततः कुर्य्यात् वामनेत्रेन्दुसंयुतम् । षडक्षरो मनुः प्रोक्तो मञ्जुघोषस्य शम्भुना ॥ इयस्तु दीपनी प्रोक्ता मूलमन्त्रस्तु कथ्यते । अङ्कुशं शक्तिबीजञ्च रमाबीजं ततः प्रिये ! ॥ बीजत्रयात्मको मन्त्रो जाड्यौघध्वान्तनाशनः । शक्तिबीजं रमाबीज कामबीजं तथा प्रिये ! ॥ विद्या श्रुतिधरी प्रोक्ता एषा वर्णत्रयात्मिका । हकारो वह्निमारूढो बालनेत्रेन्दुभूषितः । प्रोक्ता सार्व्वज्ञविद्येयं एकवर्णात्मिका प्रिये ! ॥ सिद्धः साध्यः सुसिद्धो वा साधकस्य रिपुश्च वा । तदा मन्त्रो भवेद्भक्त्या शुभदो बुद्ध्विदो भवेत् ॥ मध्याह्ने सलिले चैव भोजने भाजने तथा । गोमये तु बहिर्द्देशे मैथुने रमणीकुचे ॥ गोष्ठे च निशि गोमुण्डे यन्त्रं डमरुसन्निभम् । विलिख्य मन्त्रवर्णांश्च त्रिश ऊर्द्ध्वे अधस्तथा । लिखेच्चन्दनलेखन्या प्रयत्नात् साधकोत्तमः । उच्चाटने लिखेद्यन्त्रं गोचर्म्मणि विशेषतः । सलिले विजयी नित्यं भजने च महेश्वरः ॥ गोमये वावदूकः स्याद्गोष्ठे सर्व्वज्ञतां व्रजेत् । कुचे श्रुतिधरो नित्यं गोमुण्डे च महाकविः ॥ गोमूत्रं वदरीमूलं चन्दनं पांशुमेव च । एकीकृत्याष्टधा जप्त्वा तिलकं धारयेत् सदा ॥ नमस्कृत्य वरं श्रेष्ठं प्रार्थयेद्भक्तितत्परः । वरं प्राप्य च तस्माद्वै विहरेत्तु यथासुखम् ॥ नान्यदेवार्च्चनं स्नानं प्रणवोच्चारणं न तु । वस्त्राञ्चलेन दन्तानां शोधनं लवणेन वा ॥ रात्रिवासो न मुञ्चेत न शुचिः स्यात् कदा- चन । एवं कृत्वां प्रयत्नेन ज्ञात्वा गुरुमुखात् सुधीः ॥ मासैकेन कवीन्द्रः स्यात् द्विमासेनैव ईश्वरः । त्रिभिर्मासैर्भवेन्मर्त्यः सर्व्वशास्त्रविशारदः ॥ पुत्त्रार्थी लभते पुत्त्रं धनार्थी विपुलं धनम् । आयुरारोग्यकामस्तु सर्व्वान् कामानवाप्नुयात् ॥ ततः कराङ्गन्यासौ । क्षां शां अङ्गुष्ठाभ्यां नमः । इत्यादि एवं हृद- यादिषु । तथा च तन्त्रे । “सम्बर्त्तको वकेशश्च द्वौ वर्णौ कथितौ प्रिये ! । षड्दीर्घभाग्म्यामेताभ्यां षडङ्गानि समाचरेत् ॥ सम्बर्त्तः क्षकारः वकेशः शकारः ॥ * ॥
ध्यानम् । “शशधरमिव शुभ्रं खड्गपुस्ताङ्गपाणिं सुरुचिरमतिशान्तं पञ्चचूडं कुमारम् । पृथुतरवरमुख्यं पद्मपत्रायताक्षं कुमतिदहनदक्षं मञ्जुधोषं नमामि ॥ पीठपूजां ततः कुर्य्यादाधाराद्यादिशक्तितः । भूतप्रेतादिभिः कुर्य्यात् पीठासनमनन्तरम् ॥ ज्ञानदात्रे नमः पाद्यं बुद्धिकर्त्रे तथाचमम् । जाड्यनाशाय गन्धः स्यादर्घ्यं स्याद् यक्षपाय वै ॥ सर्व्वसिद्धिप्रदायेति पुष्पं दद्याद्विचक्षणः । कुन्दपुष्पं समादाय भैरवान् पूजयेत्ततः ॥ असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः । कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥ ततो धूपादिकं दत्त्वा प्रसूनानि बिसर्जयेत् । तैः पुष्पैः पूजयेदष्टौ यक्षिणीश्च विशेषतः ॥ सुरारिसुन्दरी चैव मनोहारिण्यनन्तरम् । कनकावती तथा कामेश्वरी च रतिकर्य्यथ ॥ पद्मिनी च नटी चैव अनुरागिण्यनन्तरम् । पूज्या एतास्तु योगिन्यो हृल्लेखाबीजपूर्ब्बिकाः ॥ एवं संपूज्य देवेशं लक्षषट्कं जपेन्मनुम् । घृताक्तकुन्दपुष्पैश्च एकादशशतानि च ॥ जुहुयादेधिते वह्नौ कान्तारे पितृवेश्मनि । एवं सिद्धमनुर्मन्त्री महायोगीश्वरो भवेत् ॥” इति तन्त्रसारः ॥ प्रकारान्तरं कुक्कुटादितन्त्रे द्रष्टव्यम् ॥



Correction: