वाचस्पत्यम्
मञ्जुपाठक || पुंस्त्री० मञ्जु पठति पठ—ण्वुल् । १ शुकखगे राजनि० स्त्रियां जातित्वात् ङीष् । २ मनोहरपाठके त्रि०
शब्दकल्पद्रुमः
मञ्जुपाठकः || पुं, (मञ्जु मनोहरं पठतीति पठ + ण्वुल् ।) शुकपक्षी । इति राजनिर्घण्टः ॥ सुन्दरपाठकर्त्तरि त्रि ॥