वाचस्पत्यम्
मञ्जूषा || स्त्री मन्ज ऊषन् (पेटरा) १ पेटिकायाम् अमरः । २ मञ्जिष्ठायाञ्च राजनि० ३ पाषाणे उणा० को० ।
शब्दकल्पद्रुमः
मञ्जूषा || स्त्री (मज्जति द्रव्यमस्मिन् । “मस्जेर्नुम् च ।” उणा० । ४ । ७७ । इति मस्ज् + ऊषन् । नुम् च स चाचोऽन्त्यात् परः । ततो जश्त्व- श्चुत्वे मध्यमस्य लोपात् साधुः ।)
पिटकः । इत्य- मरः । २ । १० । ३० ॥ (यथा, देवीभागवते । २ । ६ । ३३ । “मञ्जुषायां सुतं कुन्ती सुञ्चन्ती वाक्यमब्रवीत् ॥”)
पाषाणः । इत्युणादिकोषः ॥ मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (मञ्जिष्ठार्थे पर्य्यायो यथा, —
“मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका । मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि ॥ रसायन्यरुणा काला रक्ताङ्गी रक्तयष्टिका । भण्डीतकी च गण्डेरी मञ्जूषा वस्त्ररञ्जिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)