वाचस्पत्यम्
मटची || स्त्री मट—बा० अचि ङीप् । १ पाषाणवृष्टौ “मटचीहतेषु कुरुषु” छन्दोग्यश्रुतिः । २ रक्तवर्णक्षुद्रखगभेदे गोविन्दः ।
शब्दकल्पद्रुमः
मटची || स्त्री (मटनं मटः । मट् अवसादे + भावे अप् मटः चीयते प्रचीयते एभिरिति । मट + चि + बाहुलकात् डिः । मटचिः । ततः कृदि- कारादिति पक्षे ङीष् ।)
सर्व्वेषामवसादकत्वा दस्यास्तथात्वम् ।)
रक्तवर्णक्षुद्रपक्षिविशेषः । पाषाणवृष्टयः । यथा, गोविन्दभाष्यधृत- च्छान्दोग्ये । १ । १० । १ ॥ (“मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ इति ॥)