वाचस्पत्यम्
मणिकर्ण || पु० १ कामरूपस्थे २ शिवलिङ्गभेदे मणिकूटशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
मणिकर्णः || पुं, कामरूपस्थशिवलिङ्गभेदः । यथा, “भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः । मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः ॥ स सद्योजातरूपस्तु मणिकर्ण इतीरितः । सद्योजातस्य मन्त्रेण पूजितव्यः सदा शिवः ॥” इति कालिकापुराणे ८१ अध्यायः ॥