संस्कृत-शब्दकोशः

मणिकानन मणिकुट्टिका

मणिकार

वाचस्पत्यम्

मणिकार ||‍ पु० मणिमयं भूषणं करोति कृ—अण् । (जहरि) १ माणमयभूषणकारके २ प्रत्यक्षादिचतुःखण्डात्मकतत्त्वचि- न्तामणिनामकग्रन्थकारे गङ्गेशोपाध्याये च । कृ—क्विप् ६ त० । मणिकृदादयोऽप्यत्र ।


शब्दकल्पद्रुमः

मणिकारः || पुं, (मणिं करोतीति । कृ + अण् ।)
मणिनिर्म्मितालङ्कारादिकर्त्ता । जौहरि इति भाषा । तत्पर्य्यायः । वैकटिकः २ । इति हेमचन्द्रः ॥ न्यायचिन्तामणिकर्त्ता च ॥



Correction: