संस्कृत-शब्दकोशः

मणिबीज मणिभूमि

मणिभद्र

वाचस्पत्यम्

मणिभद्र ||‍ पु० यक्षभेदे भा० स० ३० अ० ।


शब्दकल्पद्रुमः

मणिभद्रः || पुं, (मणिषु भद्रः, यद्वा मणिभि- र्भद्रमस्य । मणिमुक्तादिधनाधिक्यादस्य तथा- त्वम् ।)
जिनानां पूर्ब्बयक्षविशेषः । तत्पर्य्यायः । जम्भलः २ पूर्ब्बयक्षः ३ जलेन्द्रः ४ । इति त्रिकाण्डशेषः ॥ (प्रधानयक्षभेदः । यथा, महाभारते । ३ । ६४ । १२७ । “ऋते त्वां मानुषीं मर्त्त्यं न पश्यामि महावने । तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥” यथा च कथासरित्सागरे । १३ । १६५ । “अस्मद्देशे पुरस्यान्तर्मणिभद्र इति श्रुतः । पूर्ब्बैः कृतप्रतिष्ठोऽस्ति महायक्षः प्रभावितः ॥”)



Correction: