संस्कृत-शब्दकोशः

मणिमण्डप मणिमध्य

मणिमत्

वाचस्पत्यम्

मणिमत् ||‍ त्रि० मणिरस्त्यस्य मतुप् । १ मणियुते त्रि० स्त्रियां ङीप् । २ यक्षभेदे पु० भा० अ० १ अ० । वृत्रासुरांश- जाते द्वापरयुगीये ३ नृपभेदे पु० भा० अ० ६७ अ० । ४ नागभेदे भा० स० ९ अ० । ५ राक्षसभेदे भा० व० १६० अ० । ६ दैत्यभेदे हरिवं० ३ अ० । ७ पश्चिमस्थे देशभेदे वृ० स० ११ अ० ।


शब्दकल्पद्रुमः

मणिमान् || [त्] त्रि, मणिविशिष्टः । रत्नभूषितः । (यथा, भागवते । ३ । १५ । ४१ । “विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह- गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ॥”)
मणिरस्तीति मतुप्रत्ययेन निष्पन्नः ॥ (पुं, नाग- विशेषः । यथा, महाभारते । २ । ९ । “मणिमान् कुण्डधारश्च कर्कोटकधनञ्जयौ ॥” राक्षसभेदः । स च कुवेरस्य सखा । यथा, महाभारते । ३ । १३० । ५७ । “सखा वैश्रवणस्यासीन्मणिमान्नामराक्षसः ॥” पश्चिमस्थदेशभेदः । यथा, बृहत्संहितायाम् । १४ । २० । “अपरस्यां मणिमान् मेघवान् वनौघः क्षुरा- र्पणोऽस्तगिरिः ॥” स्त्री, पुरभेदः । यथा, महाभारते । ३ । ९६ । ४ । “इल्वलो नाम दैत्येय आसीत् कौरवनन्दन ! । मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः ॥”)



Correction: