संस्कृत-शब्दकोशः

मणिमध्य मणिमाला

मणिमन्थ

वाचस्पत्यम्

मणिमन्थ ||‍ न० मणिरिव मथ्यते मन्थ—कर्मणि घञ् । सैन्धवलवणे अमरः ।


शब्दकल्पद्रुमः

मणिमन्थं || क्ली (मणिरिव मथ्यते इति मणि + मन्थ + कर्म्मणि घञ् ।)
सैन्धवलवणम् । इति राजनिर्घण्टः ॥ (मणयः मथ्यन्ते उपलान् विदार्य्य गृह्यन्ते अत्रास्माद्वेति । मन्थ + अधि- करणादौ घञ् ।)
पर्व्वतविशेषः । इति माणि- मन्थशब्दटीकायां भरतः ॥ (यथा, महाभारते । १३ । १८ । ३३ । “मणिमन्थेऽथ शैले वै पुरा सम्पूतिजो मया ॥”)



Correction: