वाचस्पत्यम्
मणिमाला || स्त्री ६ त० । “त्यौ त्यौ मणिमाला छिन्ना गुह- वक्त्रैः” छन्दो० उक्ते द्वादशाक्षरपादके १ छन्दोभेदे । २ हारे ३ दन्तक्षतभेदे मेदि० । ४ लक्ष्म्यां शब्दर० । ५ दीप्तौ शब्दमा०
शब्दकल्पद्रुमः
मणिमाला || स्त्री (मणिनिर्म्मिता माला शाक- पार्थिवादिवत् समासः ।)
हारः । दन्तक्षत- विशेषः । इति मेदिनी । ले, १६० ॥ (मणि- निर्म्मिता माला यस्याः ।)
लक्ष्मीः । इति शब्द- रत्नावली ॥ दीप्तिः । इतिशब्दमाला ॥ (छन्दो- भेदः । यथा, छन्दोममञ्जर्य्याम् । “त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्वैः ।” अधिकन्तु छन्दः- शब्दे द्रष्टव्यम् ॥)