वाचस्पत्यम्
मण्डक || पु० भाव० उक्ते पिष्टकभेदे कृतान्नशब्दे २१८१ पृ० दृश्यम् सङ्गीतदामो० उक्ते गीताङ्गभेदे यथा “जयप्रियः कलापश्च कमलः सुन्दरस्तथा । मङ्गलो वल्लभ- श्चेति मण्डकाः षट् प्रकीर्त्तिताः । जयप्रियो हंसताले सघुमध्ये यदा गुरुः । ऊनविंशाक्षरैर्युक्तो रसे वीरे स वर्त्तते । लघुर्गुरुर्लघुर्यत्र हंसतालः स उच्यते १ । कलापो रङ्गतालेन युक्तो रौद्ररसेहि सः । द्वाविंशत्यक्षरैर्युक्ता लघुरादौ गुरुद्वयम् । लघुरादौ गुरुद्वन्द्वं रङ्गताल इतीरितः २ । लघुद्वन्द्वं गुरुश्चैकोऽनिलोऽत्र सगणा- त्मकः । पञ्चविंशत्यक्षरैः स्यात् कमलः शान्तहास्ययोः ३ । गुरुरेको लघुद्वन्द्वं त्रिपुटे भगणात्मके । अष्टाविंशत्यक्ष- रैस्तु शृङ्गारे सुन्दरे मतः ४ । आदौ गुरुर्लघुर्मध्ये प्लुतोऽन्ते भृङ्गतालके । एकरिंशत्यक्षरैस्तु वीरे मङ्गल- मण्डकः ५ । षड्मितापुत्रके ताले गलसागजगात्मके । चतुस्त्रिंशदक्षरोऽयं वल्लभो रौद्रके रसे ६ ।”
शब्दकल्पद्रुमः
मण्डकः || पुं, (मण्डेन कृतः इति । मण्ड + संज्ञायां कन् ।)
पिष्टकविशेषः । माँडा इति हिन्दी भाषा ॥ यथा, —
“गोधूमा धवला धौताः कुट्टिताः शोषितास्ततः । प्रोक्षिता यन्त्रनिष्पिष्टाश्चालिताः समिताः स्मृताः ॥ वारिणा कोमलां कृत्वा समितां साधु मर्द्दयेत् । हस्तचालेन या तस्या लोप्त्री सम्यक् प्रसारयेत् ॥ अधोमुखघटस्यैतद्बिस्तृतं प्रक्षिपेद्बहिः । मृदुना वह्निना साध्यः सिद्धो मण्डक उच्यते ॥” लोप्त्री लेची इति लोके । “दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः । अथवा सिद्धमांसेन सतक्रवटकेन वा ॥” तस्य गुणाः । “मण्डको वृंहणो वृष्यो बल्यो रुचिकरो भृशम् । पाकेऽपि मधुरो ग्राही लघुर्द्दोषत्रयापहः ॥” इति भावप्रकाशः ॥ (माधवीलता । तत्पर्य्यायो । यथा, —
“माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च । अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥” इति च भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गीताङ्गविशेषः । यथा, —
“जयप्रियः कलापश्च कमलः सुन्दरस्तथा । मङ्गलो वल्लभश्चेति मण्डकाः षट् प्रकीर्त्तिताः ॥ जयप्रियो हंसताले लघुमध्ये यदा गुरुः । ऊनविंशत्यक्षरैर्युक्तो रसे वीरे स वर्त्तते । लघुर्गुरुर्लघुर्यत्र हंसतालः स उच्यते ॥ १ ॥ कलापो रङ्गतालेन युक्तो रौद्ररसे हि सः । द्वाविंशत्यक्षरैर्युक्तो लघुरादौ गुरुद्वयम् । लघुरादौ गुरुद्बन्द्बं रङ्गताल इतीरितः ॥ २ ॥ लघुद्वन्द्वं गुरुश्चैकोऽनिलोऽत्र संगणात्मकः । पञ्चविंशत्यक्षरैः स्यात् कमलः शान्तहास्ययोः ॥ ३ गुरुरेको लघुद्वन्द्वं त्रिपुटे भगणात्मके । अष्टाविंशत्यक्षरैस्तु शृङ्गारे सुन्दरे मतः ॥ ४ ॥ आदौ गुरुर्लघुर्मध्ये प्लुतोऽन्ते भृङ्गतालके । एकविंशत्यक्षरैस्तु वीरे मङ्गलमण्डकः ॥ ५ ॥ षट्पितापुत्त्रके ताले गलसागलगात्मके । चतुस्त्रिंशदक्षरोऽयं वल्लभो रौद्रके रसे ॥ ६ ॥ इति सङ्गीतदामोदरः ॥