वाचस्पत्यम्
मण्डन || पु० मण्डयति मडि—ल्यु । १ अलङ्कारके २ प्रसिद्धमीमां- सकभेदे पु० “शिष्यप्रशिष्यैरुपगीयमानमवेहि तत् मण्डन- मिश्रधाम” । शङ्करदिग्विजयः तेन सह शङ्कराचार्य्यता विचारकथा तत्र दृश्या । भावे ल्युट् । ३ भूषायाम् न०
शब्दकल्पद्रुमः
मण्डनं || क्ली (मण्ड्यते अनेन इति । मडि भूषे + करणे ल्युट् ।)
भूषणम् । यथा, अभिज्ञानशकु- न्तले । १ । १४ । “किमिव हि मधुराणां मण्डनं नाकृतीनाम् ।” अलङ्करिष्णुनि त्रि । इतिमेदिनी । ने, १०५ । “चतुर्धा मण्डनं वासोभूषामाल्यानुलेपनैः ।” इति महाभारते मोक्षधर्म्मः ॥