संस्कृत-शब्दकोशः

मण्डन मण्डपा

मण्डप

वाचस्पत्यम्

मण्डप ||‍ पुंन० मडि—घञ् मण्डं भूषां पाति रक्षति पा—क मडि—कपन् वा । १ जनविश्रामस्थाने २ देवादिगृहे च अमरः । यथा चण्डीमण्डप विष्णुमण्डप इत्यादि । ३ मण्डपानकर्त्तरि त्रि० शब्दरत्ना० । ४ निष्पाव्यां (शूक- शिम्बीभेदे) स्त्री राजनि० ।


शब्दकल्पद्रुमः

मण्डपः || पुं क्ली, (मडि + भावे घञ् मण्डः । मण्डं पाति । पा + कः ।)
जनविश्रामगृहम् । तत्प- र्य्यायः । जनाश्रयः २ । इत्यमरः । २ । २ । ९ ॥ (यथा, देवीभागवते । २ । ११ । ५० । “गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः । कुर्व्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् ॥”)
देवादिदत्तवेश्म । इति शब्दरत्नावली ॥ (यथा- विश्वकर्म्मप्रकाशे ६ अध्याये । “प्रदक्षिणायास्तु समस्त्वग्रतो मण्डपो भवेत् । तस्य चार्द्धेन कर्त्तव्यस्त्वग्रतो मुखमण्डपः ॥” इत्यादिमण्डपविवरणम् तत्रैव विस्तरशो द्रष्टव्यम् ॥ मण्डं पिबतीपि । पा + कः ।)
मण्ड- पानकर्त्तरि त्रि ॥



Correction: